मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 968, कुल 1023 में से
संदर्भ में पढ़ेंपान ४० जंतवः सर्वे नानाभावात्मका बुधैः ॥२६॥ जन्ममृत्युयुताः प्रोक्तास्त्वंपदधारका मताः । वैश्वानरस्त्वंपदश्चैकरूपाद्वयापको मतः ॥२७॥ तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते । जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥२८॥ एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् । सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥२९॥ अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये । शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥३०॥ बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् । आंतरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥३१॥ प्राणो दशविधः प्रोक्तः सूक्ष्मरूपोऽन्तरे स्थितः । तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणांतः संव्यवस्थितम् ॥३२॥ तस्मात् सूक्ष्मं च विज्ञानं देहद्वंद्वसमुत्तमम् । मनोऽन्तरे स्थितं पूर्णं तदंतर्न च विद्यते ॥३३॥ त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् । सर्वांतरे स्थितं ब्रह्म द्वंद्वमायाप्रचालकम् ॥३४॥ क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः । सर्वांतरे समास्थाय कल्पिताभोग- कारकः ॥३५॥ ज्ञानदेहः समाख्यातः सदैकभावधारकः । पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥३६॥ भिन्नभावधराः सर्वे जंतवः स्वप्नगाः पराः । तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥३७॥ विराद् तत्र समाख्यातो हिरण्यगर्भ- संज्ञितः । व्यापकः स्वप्नभावेषु नानाजंतुप्रचालकः ॥३८॥ तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् । सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥३९॥ पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः । शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥४०॥ अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् । कथयामि महाप्रीत्या लोकानामुपकारकम् ॥४१॥ बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पश्यते । आंतरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥४२॥ बाह्यांतरैकभावाख्यं बाह्यांतरविवर्जितम् । आनंदकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥४३॥ जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः । तयोः संधिं समाश्रित्य सुषुप्तिर्जायते परा ॥४४॥ तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् । तयोः संधिं समास्थाय तिष्ठति सा सुषुप्तिका ॥४५॥ यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ । न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥४६॥ सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति । जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥४७॥ सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः । भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥४८॥ विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते । ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥४९॥ अथ तुरीयरूपं ते कथयामि समासतः । नादरूपधरं भूततन्मात्राभेदमंजसा ॥५०॥ व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिव- दुच्यते । तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥५१॥ मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् । निद्रायां न मया