मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 969, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. ११ पान ४१ किंचिज्ज्ञातं वदति यः स वै ॥५२॥ यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः । यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥५३॥ यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः । एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥५४॥ तस्य तत्त्वं प्रवक्ष्यामि विश्वतैजसप्राज्ञगः । त्वंपदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥५५॥ त्रिविराण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते । तयोर्भेदभावे स तत्त्वरूपोऽस्मितामयः ॥५६॥ अवस्थानां समायगो नादस्तुरीयधारकः । सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥५७॥ न बाह्यो नांऽऽतरस्थोऽयं नोभयात्मक उच्यते । अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥५८॥ अतः परं प्रवक्ष्यामि बिंदुसत्त्वं सुसौख्यदम् । पंचमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥५९॥ व्यवस्थात्रयसंस्थं यत्त्वंपदस्थं प्रकथ्यते । तुरीयसंज्ञितं देहं तत्पदारूयं प्रकीर्तितम् ॥६०॥ तयोरभेदभावे यत्तत्त्वं योगमयं परम् । चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥६१॥ एवं तत्त्वविचारेण शमदमपरायणः । संकल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥६२॥ सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः । तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥६३॥ अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् । बिंदुस्त्वंपदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥६४॥ तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः । मनोवाणीविहीन- त्वात् दृश्यते योगिना परः ॥६५॥ बोधस्त्वंपदरूपश्च विबोधस्तत्पदात्मकः । तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥६६॥ असत्त्वंपदरूपं सत्तत्पदस्थमुदुच्यते । तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥६७॥ समं त्वंपदसंज्ञस्थमव्यक्तं तत्पदस्थितम् । तयोर्योगे तथा तत्त्वं स्वानंदारूयं प्रकीर्तितम् ॥६८॥ स्वानंदस्त्वंपदारूयश्चायोगस्तत्पदमुच्यते । तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥६९॥ सिद्धिस्त्वंपदगा प्रोक्ता बुद्धिस्तत्पदगा मता । तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥७०॥ एवं नानामर्तैर्युक्ता वेदांतार्थविचक्षणाः । तत्त्वं वदंति दक्ष त्वं जानीहि नात्र संशयः ॥७१॥ अनंतभावसंयुक्तं त्वंपदं विद्धि सर्वदा । अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥७२॥ इदं सारं रहस्यं ते कथितं योगदं परम् । येन सर्वत्र योगं स संपइयेज्ज्ञानचक्षुषा ॥७३॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥