भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 970, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 970

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् । संसारं च तथा योगिन् दयया सर्वतारक ॥१॥ मुद्गल उवाच । कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् । स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥२॥ स्वधर्मसंयुक्तं कर्म भोगवासनया युतम् । कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥३॥ ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् । शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥४॥ आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा । शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥५॥ चांद्रं ज्योतिर्धूमरात्री दक्षिणायनमेव यत् । कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदम् ॥६॥ तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया । येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥७॥ निष्कामिकं कर्म कृत्वा मृतो नरो यदा भवेत् । रात्रौ स दक्षिणार्के वा न तं गृह्णंति देवताः ॥८॥ देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् । नरं तं किं करिष्यंति देवाः स्वर्गसुखप्रदाः ॥९॥ अतो दाहे स वै दक्ष अग्निज्योतिःस्थगो भवेत् । दिवसे समनुप्राप्ते दिवा दैवतग- स्तथा ॥१०॥ उत्तरायणसंभूते स गच्छेदभ्रानुमंडले । प्रलये मंडलस्यैव नाशे पुरुषगो भवेत् ॥११॥ महाप्रलयवेलायां प्रकृतेः पुरुषस्य च । नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥१२॥ सकामं कर्म कृत्वा दिवसे उत्तरायणे । मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥१३॥ सदाघे धूमसंस्थश्च यदा रात्रिः समागता । तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥१४॥ दक्षिणायनमानंदादागतं वीक्ष्य तत्क्षणात् । विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥१५॥ चांद्रं ज्योतिः समाश्रित्य भोगान् भुंक्ते स्वकर्मजान् । कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥१६॥ विधिं तत्र प्रवक्ष्यामि चंद्र- कलासमुद्भवम् । अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥१७॥ इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् । भवति चंद्रगं सर्वं तेन कलायुतो भवेत् ॥१८॥ शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः । वृद्धियुक्तः स्वयंपूर्णः पूर्णिमायां प्रदृश्यते ॥१९॥ कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः । पिबंति चंद्रसंस्थं तदमृतं तृप्तिकारकम् ॥२०॥ तेन तृप्तियुताः सर्वे भवंति मासमानतः । अमायां पतितश्चंद्र ओषधीषु न संशयः ॥२१॥ अत ओषधयश्छेद्या नरेण नैव निश्चितम् । अमायां चंद्रसंयोगयुक्ताः सुखपरायणाः ॥२२॥ अतश्चंद्रभवं सर्वममृतं देवभूमिषु । चांद्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥२३॥ देवानां विविधानां स कर्म कृत्वा सकाम कम् । कर्मांगदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥२४॥ तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् । भोगांते पुनरेवाऽसौ मेघमंडल गो भवेत् ॥२५॥ तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु ।