भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 992, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 992

मुत्तमम् ॥९॥ एवं परंपराप्राप्तं विदुः सर्वे च जंतवः । नानाभावसमायुक्ता असेवन् मौद्गलं परम् ॥१०॥ दक्षयज्ञे समा- यातैः शिवविष्णुमुखाऽमरैः । तैर्ज्ञातं मौद्गलं पूर्णं योगदं सर्वसिद्धिदम् ॥११॥ यज्ञं समाप्य सर्वे ते स्वं स्वं धाम ययुर्मुदा । ततः शिवेन योगीशः प्रार्थितस्तत्र मुद्गलः ॥१२॥ पुराणश्रवणार्थं स प्रणम्यापूज्य भक्तितः । तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरम् ॥१३॥ ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखाऽमराः । आययुः श्रवणार्थं ते कैलासं पर्वतेश्वरम् ॥१४॥ शिवेन संयुताः सर्वे ब्रह्माद्याः शुश्रुवुः परम् । पुराणं मौद्गलं पूर्णं मुद्गलाद्योगिसागरात् ॥१५॥ वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः । विसृज्य मेनिरे सर्वे सस्त्रीकाः कृतकृत्यताम् ॥१६॥ गणेश्वरस्य तत्रांशः शिवपुत्रः स्थितोऽभवत् । स एव मौद्गलं नित्यं जजाप गणपप्रियः ॥१७॥ मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशाः । तत्सन्निधानगो भूत्वा जजाप त्विदमुत्तमम् ॥१८॥ विश्वनाथः शिवः साक्षात् काश्यां नित्यं महामुने । जजाप नियमे संस्थो ढुंढिराजस्य सन्निधौ ॥१९॥ माघे शुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥२०॥ तथा भाद्रपदे मासि मुद्गलः शुकसंयुक्तः । मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा ॥२१॥ नित्यं जजाप भावेन गाणपत्यैः समन्वितः । महाभक्तश्च सर्वेषां तारकस्तारकाकृतिः ॥२२॥ ज्येष्ठे मासि स्वयं पारायणं शेषश्चकार ह । मूषकस्थस्य सान्निध्ये नागासुरसमन्वितः ॥२३॥ जजाप नित्यमेवं स सर्वभावसमन्वितः । भक्तियुक्तो महाभक्तः सर्वेषां हितकारकः ॥२४॥ तथा दत्तः स्वयं साक्षाज्ज्ञानेशस्य प्रतुष्टये । ज्येष्ठे परायणं पूर्णं चक्रेऽसौ भक्तिसंयुतः ॥२५॥ नित्यं जपपरो भूत्वा जजाप त्विदमुत्तमम् । नानायोगिसमायुक्तः शंकरेण समन्वितः ॥२६॥ विष्णुर्भानुर्विधिः शक्तिरिंद्रश्चाग्निमुखाऽमराः । नित्यं स्वस्वगृहे संस्थाः सेवन्ते मौद्गलं परम् ॥२७॥ कश्यपाद्या मुनींद्राश्च मुनयः सिद्धमुख्यकाः । कपिलाद्या इदं नित्यं सेवंते भक्तिसंयुताः ॥२८॥ सनकाद्याश्च संवर्तो योगिनो नव एव च । नित्यं जपपराः पूर्णं सेवन्ते मौद्गलं मुदा ॥२९॥ नारदो गानसंयुक्तश्चचार भुवनेषु च । गायन्नित्यमिदं विप्र मौद्गलं योगशांतिदम् ॥३०॥ एवं नाना जनाः सर्वे मनवश्च महर्षयः । सेवन्ते नित्यमेवेदं सर्वसिद्धिप्रदायकम् ॥३१॥ व्यासः स्वयं महाभागः सेवते नित्यमादरात् । गाणेशं मौद्गलं चैव भक्तिभावसमन्वितः ॥३२॥ एवं मया न शक्यं तत् कथितुं मुनिसत्तम । भाग्यवंतो विशेषज्ञाः सेवंते मौद्गलं सदा ॥३३॥ ॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥