भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 993, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 993

[Header] खं. ९ अ. २१ पान ६५


॥ श्रीगणेशाय नमः॥ सूत उवाच । अथ कामयुतानां यत् पुराणश्रवणे फलम् । कथयामि समासेन सर्वसिद्धिप्रदायकम् ॥१॥ अत्रिगोत्रोद्भवः कश्चिद्विप्रः सर्वार्थकोविदः । त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरोऽभवत् ॥२॥ तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवतुः । सुशीला सुमुखौ नाम्ना सुमतिं वीक्ष्य दुर्मतिम् ॥३॥ सुमतिं वीक्ष्य पुत्रं तौ शिक्षयंतौ निरंतरम् । स तयोर्वचनं दुष्टो न चकार कदाचन ॥४॥ ततस्तौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा । साक्षात् मुनिवरस्तत्र भरद्वाजः समाययौ ॥५॥ संपूज्य मुनिशार्दूलं दुःखवंतावपृच्छताम् । पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् ॥६॥ ततः स करुणाविष्टस्तौ जगाद महामतिः । पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति ॥७॥ एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः । सुमुखः पुत्रसंयुक्तः स्त्रियाऽत्रिं प्रजगाम ह ॥८॥ तं प्रणम्य महाभागं योगींद्रं योगदायकम् । पप्रच्छ मौद्गलं कुत्र लभ्यते तद्वदस्व मे ॥९॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । अत्रिः संमान्य विप्रेशं जगाद वचनं हितम् ॥१०॥ अत्रिरुवाच । मा चिंतां कुरु पुत्र त्वं स्थीयतामाश्रमे मम । पारायणं करिष्यामि भाद्रमासेऽहमादरात् ॥११॥ तत्र त्वं मौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमम् । तथेति सुमुखो हर्षात्तं प्रणम्य चकार ह ॥१२॥ अथ स्वल्पेन कालेन भाद्रनामा समाययौ । मासो मुनिगणास्तत्र श्रवणार्थं समाययुः ॥१३॥ क्षत्रियान् वैश्यकान् शूद्रांस्तान् दृष्ट्वा हर्षसंयुतः । सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुतः ॥१४॥ उपोषणपरो भूत्वा पंचम्यां ब्राह्मणैः सह । चकार पारणं सोऽपि भक्तियुक्तेन चेतसा ॥१५॥ ततस्तस्य सुतः सोऽपि सुमतिः शीलसंयुतः । बभूव धर्मसंयुक्तः स्वाचारस्थो महामतिः ॥१६॥ तत् दृष्ट्वा परमाश्चर्यं सस्त्रीकः पुत्रसंयुक्तः । गणेशभजने सक्तो योगिवंद्यो बभूव ह ॥१७॥ अंते गणेश्वरं प्राप्य ब्रह्मभूतोऽभवत् द्विजः । एतत्ते कथितं विप्र शृण्वन्यच्चित्रमुत्तमम् ॥१८॥ तत्र पारायणे कश्चिद् वृषभो दुःखसंयुतः । अशक्तत्वात् स्थितो दूरं शुश्रुवे किंचिदादरात् ॥१९॥ ममार तत्र तं नेतुं गाणपत्याः समाययुः । तान् दृष्ट्वा विस्मिताः सर्वे प्रपच्छुः परिपूज्य वै ॥२०॥ विप्राद्या ऊचुः । केन पुण्येन युष्माभिर्वृषभो नीयतेऽमराः । वदंतु गाणपवराः स्वानंदे चित्रमुत्तमम् ॥२१॥ गाणेशा ऊचुः । अयं भवत्सन्निधाने पतितो दुःखसंयुतः । शुश्राव मौद्गलं पारायणमेव महर्षयः ॥२२॥ मध्ये ममार दुःखेन पीडितोऽतितरां वृषः । अधुना ब्रह्मभूतं तं करिष्यामो न संशयः ॥२३॥ मौद्गलस्य पदं श्रुत्वा लोकस्थश्चेन् मृतो भवेत् । न तस्य पुनरावृत्तिर्भविष्यति न संशयः ॥२४॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः । पप्रच्छुस्तान् पुनश्चित्रं संशयेन