भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 994, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 994

खं. ९ अ. २२ पान ६६ समन्विताः ॥२५॥ विप्रा ऊचुः । अयं वृषभयोनिस्थो वयं मानवदेहजाः । अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न ॥२६॥ वृषभेण यदुक्तं तद्वचनं मानवैः कदा । ज्ञायते न विशेषेण योनिभिन्नप्रभावतः ॥२७॥ अयं वृषभयोनिस्थः परं पारायणं कथम् । श्रुत्वा स तस्य माहात्म्यं फलभोक्ता भवेत् पराः ॥२८॥ गाणेशा ऊचुः । श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् । अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितम् ॥२९॥ ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् । संस्पृष्टश्चेन् महाभागा मौद्गलं तु तथा स्मृतम् ॥३०॥ योगामृतमयं पूर्णं मौद्गलं सर्वसंमतम् । सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा ॥३१॥ एवमुक्त्वा ययुः सर्वे गाणेशा गणपालयम् । वृषभं गृह्य ते चित्रं ब्राह्मणा विस्मिता जगुः ॥३२॥ एवं मौद्गलजं चित्रं माहात्म्यं मुनिसत्तम । तस्य प्रभावजं तेजो वर्णितुं कः क्षमो भवेत् ॥३३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । क्षत्रियो माधवः कश्चिन् मालवे संबभूव ह । अवन्तीनगरीपालः स्वधर्मनिरतः सदा ॥१॥ कांबोजः कर्णको राजा तत्र युद्धार्थमाययौ । जित्वा भूपमवंत्यां वै राज्यं चक्रे स हर्षितः ॥२॥ सस्त्रीकः पुत्रसंयुक्तः प्रधानैर्वीरमुख्यकैः । बभ्राम स वने राजा यत्र तत्र सुदुःखितः ॥३॥ ततो महावनं वीरो ददर्श व्याघ्रसंयुतम् । नानापशुयुतं तत्र प्रविवेश सुदुःखितः ॥४॥ दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकम् । प्रणनाम स साष्टांगं स रुरोद हि विह्वलः ॥५॥ तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रच्छ कश्यपः । जगाद स यथापूर्वं वृत्तांतं शोकसंकुलः ॥६॥ ततस्तं कश्यपः प्राह मा कुरु त्वं महीपते । चिंतां शृणु स्वराज्यस्य प्रापकं तत् कुरुष्व च ॥७॥ समीपे माघमासः समागतश्च शृणुष्व तत् । मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहम् ॥८॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः । सर्वैः साकं स्थितस्तत्र पुराणश्रवणाय सः ॥९॥ तथा मुनिगणांश्चांश्च श्रवणार्थं समागतान् । क्षत्रियाचान् स तान् दृष्ट्वा हर्षयुक्तो बभूव ह ॥१०॥ विनायकं प्रतिपदि तदा पूज्य महामुनिः । उपोषणसमायुक्तः शुक्ले स्त्रीभिः समारभत् ॥११॥ पारायणं मौद्गलस्य मंडपे