मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 997, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. २४ पान ६९ प्रणम्यादौ ददुस्तं पापकारकम् ॥२५॥ तत्रोवाच महाबुद्धिश्चित्रगुप्तो यमं वचः । महापापी महाभाग चांडालोऽयं विशे- षतः ॥२६॥ न पुण्यस्य कदा लेशश्चांडालेन कृतः प्रभो । मौद्गलस्य पदं नाथ श्रुतमेकमनेन च ॥२७॥ एतत् सर्वं मया तुभ्यं कथितं तस्य चेष्टितम् । कुरु यद्धर्मसंयुक्तं दंडरूपं महामते ॥२८॥ चित्रगुप्तवचः श्रुत्वा धर्मो ध्यात्वा गजाननम् । विचारमकरोचित्ते किं करोमि सुखप्रदम् ॥२९॥ एतस्मिन्नंतरे तत्र सत्या वाक् तमुवाच ह । प्रहश्य नरकानेव चांडालाय महामते ॥३०॥ संतर्ज्य स्वर्गभूमीषु स्थापयस्व यथा सुखम् । तथा चकार संहर्षाद्धर्मराजः प्रतापवान् ॥३१॥ स्वस्थाने भोगसंयुक्तं कृत्वा तं स्थाप्य सूर्यजः । संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतम् ॥३२॥ गाणेशास्तं प्रगृह्यैव ययुः स्वानं- दकं पुरम् । धर्मादयस्ततः सर्वे विस्मिताः संबभूविरे ॥३३॥ एवमेकपदस्यैव मौद्गलश्लोकगस्य यत् । श्रवणेन फलं प्रोक्तमतः किं वर्णयाम्यहम् ॥३४॥ एवं ज्येष्ठाभिधे मासि श्रुत्वा पारायणं नराः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंद- माययुः ॥३५॥ तत्र वक्तुं मया विप्र शक्यते न कदाचन । वर्षायुतैस्ततस्तुभ्यं कथितं लेशतः परम् ॥३६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चित्रं त्वं सूत वदसि न श्रुतं कुत्रचिन् मया । एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयोऽभवत् ॥१॥ अहो पापसमाचारश्चांडालः श्लोकसंभवम् । मौद्गलस्य पदं श्रुत्वा ब्रह्मभूतो बभूव ह ॥२॥ अतो मौद्गलजं पूर्णं माहात्म्यं कीदृशं भवेत् । तद्वदस्व दयासिंधो सर्वसंशयनाशनम् ॥३॥ सूत उवाच । चांडालं गृह्य गाणेशा ययुः स्वनगरं प्रति । तत् दृष्ट्वाऽऽश्चर्यसंयुक्तो यमो वेधसमागमत् ॥४॥ प्रणम्य स विधातारं जगदे वाक्यमुत्तमम् । विनयेन समायुक्तस्तेन सम्मानितो यमः ॥५॥ धर्म उवाच । मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया । न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् ॥६॥ चांडालः पापकर्मा कः श्रुत्वैकं श्लोकजं पदम् । ब्रह्मभूतो बभूवाऽपि किमिदं कौतुकं विधे ॥७॥ एवं सर्वजना ब्रह्मन्नज्ञानेन समन्विताः । ज्ञानयुक्ता गमिष्यंति स्वानंदं विविधात्मकाः ॥८॥ विश्वं चराचरं श्रुत्वा क्षीणं