मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 996, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणः सुमतिर्नाम कुष्ठयुक्तो बभूव ह । संभूतो गालवे वंशे पीडां लेभे सुदारुणाम् ॥१॥ सर्वांगे भक्षितः कीटैः सदा दुर्गन्धसंयुतः । पूयशोणितघर्माद्यैर्व्याप्तः सर्वत्र विप्रप ॥२॥ ततः सोऽपि स्वदेहस्य घातार्थं उद्यतोऽभवत् । सस्मार गणपं चित्ते विघ्नहीनार्थमादरात् ॥३॥ एतस्मिन्नंतरे तत्राजगाम द्विजसत्तमः । धौम्यः सर्वार्थवित् साक्षाज्जातवेदा इवापरः ॥४॥ तं दृष्ट्वा प्रणनामादौ रुरोदे दुःखसंयुतः । सुमतिं तं प्रहस्यैव धौम्योऽगादीत् स सौख्यदम् ॥५॥ धौम्य उवाच । मा चिंतां कुरु मा देहघातं कुरु महामते । मौद्गलं शृणु भावेन रोगहीनो भविष्यसि ॥६॥ सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकम् । मौद्गलं श्रवणेनैव चल शीघ्रं मया सह ॥७॥ एवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः । जगाम पुलहं धौम्यो नानामुनिजनैर्वृतम् ॥८॥ तत्र ज्येष्ठः समायातो मासः सर्वार्थसिद्धिदः । स्वल्पकालेन योगीशः पुलहो हर्षितोऽभवत् ॥९॥ शुक्लप्रतिपदि पारायणं प्राज्ञः समारभत् । मौद्गलस्य पुराणस्य नानाजनसमन्वितः ॥१०॥ उपोषणसमायुक्ता बभूवुस्ते महामुने । श्रवणे तत्पराः सर्वे पुलहश्च तथाऽभवत् ॥११॥ सुमतिर्धौम्यसंयुक्तस्तथाभूतो महामतिः । गणेशं मनसि ध्यात्वा परं शुश्राव मौद्गलम् ॥१२॥ चतुर्भिर्दिवसैः सोऽपि समाप्तं तच्चकार ह । पंचम्यां पारणं सर्वैश्चकार गणपे रतः ॥१३॥ सुमतिः कुष्ठहीनः स बभूवे तत्क्षणात् मुदा । तं दृष्ट्वा हर्षसंयुक्ता विस्मितास्ते बभूविरे ॥१४॥ धौम्येनानम्य पुलहं स्वाश्रमं स समाययौ । तत्र धौम्यं प्रपूज्यादौ जगाद सुमतिर्वचः ॥१५॥ सुमतिरुवाच । अस्य देहस्य कर्ता च पिता माता महामुने । त्वमेव मे न संदेहः किं करोमि त्वदीप्सितम् ॥१६॥ देहोऽयं मे मया विप्र तवाधीनः कृतः सदा । शाधि मां तदहं नित्यं करिष्यामि विशेषतः ॥१७॥ धौम्य उवाच । गणेशं भज भावेन मौद्गलेन समन्वितम् । तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः ॥१८॥ एवमुक्त्वा महायोगी धौम्यः स्वाश्रमगोऽभवत् । सुमतिर्गणनाथं स मौद्गलेनाऽभजत् सदा ॥१९॥ अंते ब्रह्ममयो जातो भुक्त्वा भोगान् यथेप्सितान् । एवं ज्येष्ठाभिधे मासे पारायणफलं परम् ॥२०॥ अथान्यच्छृणु धर्मज्ञ वृत्तांतं तत्र संभवम् । पुलहो हर्षयुक्तश्चक्रे पारायणं परम् ॥२१॥ तत्र कश्चित्तु चांडाल आययौ स यदृच्छया । दूरे स्थितः पश्यति स्म किमिदं कौतुकं महत् ॥२२॥ दूरस्थेन श्रुतं तेन श्लोकस्य पदमुत्तमम् । एकं संपूर्णभावेन भक्तसंरक्षकस्य च ॥२३॥ ततः स विस्मितो भूत्वा जगाम स्वेच्छयेरितः । पापकर्मा पुनः पापं चकार विविधं मुने ॥२४॥ मृतं तं यमदूताश्च गृह्य सर्वे त्वरान्विताः । जग्मुर्देवं