मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 118, कुल 488 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १५
सुप्सुपा वा कर्मधारय स०, तेषाम् । यह 'ब्राह्मणानाम्' का विशेषण है । कुटुम्बकम्—पोष्यवर्ग । कुटुम्बानां समूहः इति कुटुम्ब + कन् । अतिथयः—अभ्यागत, मेहमान । अतति गच्छति न तिष्ठति इति √अत् + इथिन्, अथवा न विद्यते द्वितीया तिथिः यस्य स अतिथिः नञ्बहुव्रीहि स० । मनु ने कहा है—'एकरात्रं तु निवसन्मतिथिर्ब्राह्मणः स्मृतः ; अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥' पाकविशेषारम्भः—उत्तम भोजन की तैयारी । वि√शिष् + घञ् भावे = विशेषः । पाकस्य विशेषः । तस्य आरम्भः षष्ठीतत्० । कस्मिन् निमित्ते—अत्र 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' इति वार्तिकेन सप्तमी । उपरज्यते—ग्रहणयुक्त या राहुग्रस्त हो रहे हैं । उप√रञ्ज् + लट् ते कर्मणि । उपराग = ग्रहण । आह√ब्रू + लट्—तिप्, तिपः णल्, ब्रुवः आहादेशः । कभी-कभी 'आह' भूतकाल में 'उवाच' की जगह प्रयुक्त होता है । वहाँ इसे एक अव्यय समझना चाहिए ।
सूत्रधारः—आर्ये ! कृतश्रमोऽस्मि चतुः षष्ट्यङ्गे ज्योतिःशास्त्रे । तत् प्रवर्त्त्यतां भगवतो ब्राह्मणानुद्दिश्य पाकः । चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि । पश्य—
क्रूरग्रहः स केतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बलात्— [ इत्यर्द्धोक्ते ]
[ नेपथ्ये ]
आः, क एष मयि स्थिते—
सूत्रधारः—
रक्षत्येनं तु बुधयोगः ॥ ६ ॥
व्याख्या—आर्ये—माननीये, चतुःषष्ट्यङ्गे—चतुःषष्टिसंख्यकशाखायुक्ते, ज्योतिःशास्त्रे—ग्रहादिस्थितिबोधके शास्त्रे, कृतश्रमः—कृताभ्यासः, अस्मि । तत्—तस्मात्, ( कथयामि यत् ) भगवतो ब्राह्मणान्, उद्दिश्य—निमित्तीकृत्य, पाकः—भोजन-निर्माणं, प्रवर्त्त्यतां—क्रियताम्, तु—किन्तु, चन्द्रोपरागं प्रति—चन्द्रग्रहणसम्बन्धे ( त्वं ) केनापि—केनचित् जनेन, विप्रलब्धासि—प्रतारितासि ( अर्थात् अद्य चन्द्रग्रहणं न भविष्यति ) ।
अन्वयः—स क्रूरग्रहः केतुः इदानीम् असम्पूर्णमण्डलम् चन्द्रम् बलात् अभिभवितुम् इच्छति ।