मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 121, कुल 488 में से
संदर्भ में पढ़ें| १८ | मुद्राराक्षसम् |
|---|
दर्पणोक्त लक्षण के अनुसार श्लेषालङ्कार है । इसमें आर्या छन्द है । लक्षण श्लोक ५ की टिप्पणी में देखिए ॥६॥
नटी—अज्ज ! को उण एसो धरणीगोअरो भविअ चन्दग्गहाभिओ- आदो रक्खिदु इच्छदि । ( आर्य ! कः पुनरेष धरणीगोचरो भूत्वा चन्द्र- ग्रहाभियोगाद्रक्षितुमिच्छति । )
सूत्रधार—आर्ये ! यत्सत्यं मयापि नोपलक्षितं । भवतु । भूयोऽ- भियुक्तः स्वरव्यक्तिमुपलप्स्ये । [ ‘क्रूरग्रह’—इत्यादि पुनस्तदेव पठति । ]
[ नेपथ्ये ] आः, क एष मयि स्थिते चन्द्रगुप्तमभिभवितुमिच्छति ।
सूत्रधार—[ आकर्ण्य ] आर्ये ! ज्ञातम् । कौटिल्यः !
[ नटी भयं नाटयति ]
सूत्रधार—
कौटिल्यः कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः । चन्द्रस्य ग्रहणमिति श्रुते सनाम्नो मौर्य्यस्योद्विग्नपदभियोग इत्यवैति ॥७॥
तदित आवां गच्छावः । [ इति निष्क्रान्तौ । ]
इति प्रस्तावना ।
व्याख्या—नटी प्राह, आर्य !, एष, कः, पुनः, धरणीगोचरः—धरणी पृथ्वी गोचरः देशो यस्य स तादृशः, भूत्वा—नेपथ्यस्थित एवेत्यर्थः, चन्द्र—चन्द्रमसः, ग्रहाभियोगात्—ग्रहस्य राहोः अभियोगात् पीडनात्, रक्षितुम्—त्रातुम्, इच्छति—वाञ्छति । सूत्रधारः कथयति, आर्ये, यत्सत्यम्—वस्तुतः, मयापि, न उपलक्षितम्—न निरूपितम् । भवतु—अस्तु, भूयः—पुनः, अभियुक्तः—अवहितः ( सन् ), स्वरव्यक्तिम्—स्वरस्य कण्ठध्वनेः व्यक्तिम् अभिव्यञ्जनम्, उपलप्स्ये—प्राप्स्यामि ज्ञास्यामि इति यावत् । ( पुनः तदेव ‘क्रूरग्रह’---इत्यादि पठति । ) नेपथ्यस्थितः पुरुषोऽपि पुनः सकोपम् ‘आः, क एष’—इत्यादि पठति । आकर्ण्य—श्रुत्वा, सूत्रधारः वक्ति, ज्ञातम्—अवगतम्, कौटिल्यः—चाणक्यः अयम् इति । नटी, ......, नाटयति—सविलासदर्शयति ।