भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 121, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 121
१८मुद्राराक्षसम्

दर्पणोक्त लक्षण के अनुसार श्लेषालङ्कार है । इसमें आर्या छन्द है । लक्षण श्लोक ५ की टिप्पणी में देखिए ॥६॥

नटी—अज्ज ! को उण एसो धरणीगोअरो भविअ चन्दग्गहाभिओ- आदो रक्खिदु इच्छदि । ( आर्य ! कः पुनरेष धरणीगोचरो भूत्वा चन्द्र- ग्रहाभियोगाद्रक्षितुमिच्छति । )

सूत्रधार—आर्ये ! यत्सत्यं मयापि नोपलक्षितं । भवतु । भूयोऽ- भियुक्तः स्वरव्यक्तिमुपलप्स्ये । [ ‘क्रूरग्रह’—इत्यादि पुनस्तदेव पठति । ]

[ नेपथ्ये ] आः, क एष मयि स्थिते चन्द्रगुप्तमभिभवितुमिच्छति ।

सूत्रधार—[ आकर्ण्य ] आर्ये ! ज्ञातम् । कौटिल्यः !

[ नटी भयं नाटयति ]

सूत्रधार

कौटिल्यः कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः । चन्द्रस्य ग्रहणमिति श्रुते सनाम्नो मौर्य्यस्योद्विग्नपदभियोग इत्यवैति ॥७॥

तदित आवां गच्छावः । [ इति निष्क्रान्तौ । ]

इति प्रस्तावना ।

व्याख्यानटी प्राह, आर्य !, एष, कः, पुनः, धरणीगोचरः—धरणी पृथ्वी गोचरः देशो यस्य स तादृशः, भूत्वा—नेपथ्यस्थित एवेत्यर्थः, चन्द्र—चन्द्रमसः, ग्रहाभियोगात्—ग्रहस्य राहोः अभियोगात् पीडनात्, रक्षितुम्—त्रातुम्, इच्छति—वाञ्छति । सूत्रधारः कथयति, आर्ये, यत्सत्यम्—वस्तुतः, मयापि, न उपलक्षितम्—न निरूपितम् । भवतु—अस्तु, भूयः—पुनः, अभियुक्तः—अवहितः ( सन् ), स्वरव्यक्तिम्—स्वरस्य कण्ठध्वनेः व्यक्तिम् अभिव्यञ्जनम्, उपलप्स्ये—प्राप्स्यामि ज्ञास्यामि इति यावत् । ( पुनः तदेव ‘क्रूरग्रह’---इत्यादि पठति । ) नेपथ्यस्थितः पुरुषोऽपि पुनः सकोपम् ‘आः, क एष’—इत्यादि पठति । आकर्ण्य—श्रुत्वा, सूत्रधारः वक्ति, ज्ञातम्—अवगतम्, कौटिल्यः—चाणक्यः अयम् इतिनटी, ......, नाटयति—सविलासदर्शयति ।