मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 168, कुल 488 में से
संदर्भ में पढ़ें• प्रथमोऽङ्कः ६७
पश्चात्, तेषु—घातकेषु, गृहीतसंज्ञेषु—ज्ञातसंकेतेषु, भयापदेशात्—भयव्याजात्, इतस्ततः—चतुर्दिक्षु, प्रद्रुतेषु,—पलायितेषु, ( सत्सु ) शकटदासः—तन्नामक-राक्षसमित्रं, वध्यस्थानात्, अपनीय—पृथक्कृत्य, राक्षसं—नन्दामात्यं, प्रापयितव्यः—नेतव्यः। सुहृत्प्राणपरिरक्षणपरितुष्टात्—सुहृदः मित्रस्य प्राणाः जीवनं तेषां परिरक्षणं सुरक्षा तेन परितुष्टः प्रसन्नः तथाविधात्, तस्मात्—राक्षसाच्च, पारितोषिकं—पुरस्कारः, ग्राह्यम्—स्वीकार्यम्। राक्षस एव, कञ्चित्कालं—कियत्समयं, सेवितव्यः—आश्रयितव्यः। ततः—सेवनानन्तरं, परेषु—शत्रुषु, प्रत्यासन्नेषु—समीपवर्तिषु, ( सत्सु ) इदं, प्रयोजनं—कार्यम्, अनुष्ठेयं—कर्तव्यम्।
हिन्दी अनुवाद—चाणक्य—पहले तो वध्य-भूमि पर वधिकों को क्रोध-पूर्वक ( अपनी ) दाहिनी आँख को दबाने का संकेत समझा दो। उसके बाद उनके संकेत समझ लेने तथा भय के बहाने इधर-उधर भाग जाने पर शकटदास को वध्य-स्थान से ले जाकर राक्षस के पास पहुँचा दो। मित्र के प्राणों की रक्षा से सन्तुष्ट उस ( राक्षस ) से पुरस्कार प्राप्त करो। कुछ समय तक राक्षस की ही सेवा में रहो। अनन्तर शत्रुओ के समीप आ जाने पर यह कार्य करना है। [ कान में इस तरह ]
टिप्पणी—घातकाः—वधिक, जल्लाद। घ्नन्ति इति घातकाः। √हन् + ण्वुल्—अक्, 'हनस्त च' इत्यनेन हकारस्य तकारः। सरोषदक्षिणाक्षिसङ्कोच-संज्ञाम्—क्रोध के साथ दाहिनी आँख को दबाने के इशारे को। रोषेण सह वर्तमानम् इति सरोषम् 'तेन सह'—इति बहुव्रीहि स०। दक्षिणाम् अक्षि दक्षिणाक्षि कर्मधारय स०। तस्य सङ्कोचः षष्ठीतत्०। सरोषं यथा तथा दक्षिणाक्षिसङ्कोचः सुप्सुपा स० । स एव संज्ञा मयूरव्यंसकादित्वात् स०, ताम्। ग्राहयितव्याः—ग्रहण कराने या समझाने चाहिए। √ग्रह् + णिच् + तव्य कर्मणि। अत्र अणि कर्तुः कर्मसंज्ञा। वाक्यबोधस्तु इत्थम्—'घातकाः संज्ञां ग्रहीष्यन्ति = त्वं घातकान् संज्ञां ग्राहयिष्यसि'। तेषु—अत्र भावे सप्तमी। भयापदेशात्—भय के छल से। अत्र ल्यब्लोपे पञ्चमी। भयापदेशमाश्रित्येत्यर्थः। सुहृत्—सुष्ठु हृदयस्य इति सुहृत् प्रादिबहुव्रीहि स०; सुहृद्दुर्हृदौ मित्रामित्रयोः' इत्यनेन हृदयस्य हृद्भावः। पारितोषिकम्—पुरस्कार, इनाम। परितोषः प्रयोजनमस्य इति परितोष + ठञ्—इक।