भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 202, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 202

द्वितीयोऽङ्कः १०७

अपि च अनभिजाते !

पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पतिं पापे मौर्य यदसि कुलहीनं वृतवती । प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥

अन्वयः—पापे ! पृथिव्या प्रथितकुलजाः भूमिपतयः दग्धाः किं ( यत् त्व ) कुलहीनं मौर्य पतिं वृतवती असि । वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा प्रकृत्या पुरुषगुणविज्ञानविमुखी ( भवति ) ॥ ७ ॥

व्याख्या—पापे—पापाचारे !, पृथिव्यां—धराया, प्रथितकुलजाः प्रथितानि विख्यातानि कुलानि वंशाः तेषु जाताः, भूमिपतयः—राजानः, दग्धाः—भस्मसाद्भूताः, किं ( यत् त्वं ), कुलहीनं—कुलशून्यं, मौर्य—वृषल, पति—स्वामिन, वृतवती असि—आवृतोः । वा—अथवा, काशप्रभवकुसुमप्रान्तचपला—काशप्रभवं काशतृणाजात यत् कुसुमं पुष्पं तस्य प्रान्तः अग्रभागः इव चपला चञ्चलाः, पुरन्ध्रीणां—रमणीना, प्रज्ञा—मतिः, प्रकृत्या—स्वभावतः, पुरुषगुणविज्ञानविमुखी—पुरुषाणाम् आश्रयभूताना जनानां ये गुणाः सत्कुलत्वादयः तेषा विज्ञाने परिग्रहे विमुखी पराङ्मुखी ( भवति ) ॥ ७ ॥

हिन्दी अनुवाद—और भी अकुलीने !

पापिनि ! पृथिवी पर विख्यात वंश मे उत्पन्न राजा लोग जल मरे जो तूने अकुलीन चन्द्रगुप्त को पति चुन लिया । अथवा काशपुष्प के सिरे के समान चंचल, रमणियों की बुद्धि स्वभावतः पुरुषो के गुणों के विवेचन से विमुख रहती है ॥७॥

टिप्पणीअनभिजाते—अभिजाता = कुलीना, तद्भिन्ना अनभिजाता, तत्सम्बोधने अनभिजाते इति। यहाँ शोक के कारण गाली देने के रूप मे राक्षस ने लक्ष्मी को अकुलीना कहा है, वैसे तो क्षीर-सागर से उत्पन्न होने के कारण लक्ष्मी कुलीना ही है । कुलहीनम्—चन्द्रगुप्त नन्द का मुरा दासी से उत्पन्न जारज पुत्र था । इस लिए उसे कुलहीन कहा गया है । काशप्रभव—काशतृण से उत्पन्न । प्रभवति अस्मात् इति प्र√भू+अप् अपादाने = प्रभवः । काशः प्रभवः अस्य इति काशप्रभवम् बहुव्रीहि स० । पुरन्ध्रीणाम्—स्त्रियों की । पुरं धारयति इति पुर√धृ+णिच्+खच् कर्तरि+डीप् स्त्रियाम् पृषोदरादित्वात् साधुः । पुरुषगुणविज्ञानविमुखी—पुरुषों के गुणों को पहचानने में विमुख । विवृत्तं मुखम् अस्याः , इति विमुखी प्रादिबहुव्रीहि स० । इस पद्य में अर्थान्तरन्यास अलंकार है । इसमे

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 202, कुल 488 में से · BharatKosha