मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 202, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १०७
अपि च अनभिजाते !
पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः पतिं पापे मौर्य यदसि कुलहीनं वृतवती । प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥
अन्वयः—पापे ! पृथिव्या प्रथितकुलजाः भूमिपतयः दग्धाः किं ( यत् त्व ) कुलहीनं मौर्य पतिं वृतवती असि । वा काशप्रभवकुसुमप्रान्तचपला पुरन्ध्रीणां प्रज्ञा प्रकृत्या पुरुषगुणविज्ञानविमुखी ( भवति ) ॥ ७ ॥
व्याख्या—पापे—पापाचारे !, पृथिव्यां—धराया, प्रथितकुलजाः प्रथितानि विख्यातानि कुलानि वंशाः तेषु जाताः, भूमिपतयः—राजानः, दग्धाः—भस्मसाद्भूताः, किं ( यत् त्वं ), कुलहीनं—कुलशून्यं, मौर्य—वृषल, पति—स्वामिन, वृतवती असि—आवृतोः । वा—अथवा, काशप्रभवकुसुमप्रान्तचपला—काशप्रभवं काशतृणाजात यत् कुसुमं पुष्पं तस्य प्रान्तः अग्रभागः इव चपला चञ्चलाः, पुरन्ध्रीणां—रमणीना, प्रज्ञा—मतिः, प्रकृत्या—स्वभावतः, पुरुषगुणविज्ञानविमुखी—पुरुषाणाम् आश्रयभूताना जनानां ये गुणाः सत्कुलत्वादयः तेषा विज्ञाने परिग्रहे विमुखी पराङ्मुखी ( भवति ) ॥ ७ ॥
हिन्दी अनुवाद—और भी अकुलीने !
पापिनि ! पृथिवी पर विख्यात वंश मे उत्पन्न राजा लोग जल मरे जो तूने अकुलीन चन्द्रगुप्त को पति चुन लिया । अथवा काशपुष्प के सिरे के समान चंचल, रमणियों की बुद्धि स्वभावतः पुरुषो के गुणों के विवेचन से विमुख रहती है ॥७॥
टिप्पणी—अनभिजाते—अभिजाता = कुलीना, तद्भिन्ना अनभिजाता, तत्सम्बोधने अनभिजाते इति। यहाँ शोक के कारण गाली देने के रूप मे राक्षस ने लक्ष्मी को अकुलीना कहा है, वैसे तो क्षीर-सागर से उत्पन्न होने के कारण लक्ष्मी कुलीना ही है । कुलहीनम्—चन्द्रगुप्त नन्द का मुरा दासी से उत्पन्न जारज पुत्र था । इस लिए उसे कुलहीन कहा गया है । काशप्रभव—काशतृण से उत्पन्न । प्रभवति अस्मात् इति प्र√भू+अप् अपादाने = प्रभवः । काशः प्रभवः अस्य इति काशप्रभवम् बहुव्रीहि स० । पुरन्ध्रीणाम्—स्त्रियों की । पुरं धारयति इति पुर√धृ+णिच्+खच् कर्तरि+डीप् स्त्रियाम् पृषोदरादित्वात् साधुः । पुरुषगुणविज्ञानविमुखी—पुरुषों के गुणों को पहचानने में विमुख । विवृत्तं मुखम् अस्याः , इति विमुखी प्रादिबहुव्रीहि स० । इस पद्य में अर्थान्तरन्यास अलंकार है । इसमे