भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 203, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 203

१०८ | मुद्राराक्षसम्

वैदर्भी रीति है, प्रसाद गुण है और शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥७॥

अपि च, अविनीते ! तदहमाश्रयोन्मूलनेनैव त्वामकामा करोमि। [ विचिन्त्य ] मया तावत्सुहृत्तमस्य चन्दनदासस्य गृहे गृहजनं निक्षिप्य नगराद्निर्गच्छता न्याय्यमनुष्ठितम्। कुतः ? कुसुमपुराभियोगं प्रति अनुदासीनो राक्षस इति तत्रत्यानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोद्यमः शिथिलीभविष्यति। चन्द्रगुप्तशरीरमभिद्रोग्धुमस्मत्प्रयुक्तानां तीक्ष्णरसदायिनामुपसंग्रहार्थं परकृत्योपजापार्थञ्च महता कोशसञ्चयेन स्थापितः शकटदासः। प्रतिक्षणमरातिवृत्तान्तोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सुहृदो जीवसिद्धिप्रभृतयः।

व्याख्याअपि च—अयञ्च, अविनीते—विनय-शून्य !, तत्—तस्मात् कारणात्, अहम्, आश्रयोन्मूलनेनैव—आश्रयस्य त्वदवलम्बनस्य उन्मूलननेव विनाशेनेव, त्वाम्—भवतीम्, अकामा—विफलमनोरथा, करोमि—विदधामि। विचिन्त्य—विचार्य, सुहृत्तमस्य—बन्धुप्रवरस्य, चन्दनदासस्य, गृहे—गेहे, गृहजन—कलत्रं, निक्षिप्य—न्यासीकृत्य, नगरात्—पुरात्, निर्गच्छता—निःसरता, मया, न्याय्य—ममुचितम्, अनुष्ठितम्—विहितम्। कुसुमपुराभियोगं प्रति—कुसुमपुरस्य पाटलिपुत्रस्य अभियोगं आक्रमणं तं प्रति, राक्षस—नन्दामात्यः, अनुदासीन—न निष्कामः, इति (ज्ञात्वा), तत्रत्यानाम्—कुसुमपुरे स्थितानाम्, अस्माभिः सहैककार्याणाम्—तुल्यप्रयोजनानाम्, देवपादोपजीविना—देवपादानाम् राज्ञो नन्दस्य ये उपजीविनः सेवकाः तेषाम्, उद्यमः—प्रयत्नः, न शिथिलीभविष्यति—नमन्दीभविष्यति। चन्द्रगुप्तशरीरम्—चन्द्रगुप्तस्य नृपतेः शरीरं देहम्, अभिद्रोग्धु—हन्तुम्, अस्मत्प्रयुक्तानाम्—अस्माभिः प्रयुक्तानां व्यापारितानां, तीक्ष्णरसदायिना—विषदायिनाम्, उपसंग्रहार्थ—सम्यग्ग्रहणार्थं, परकृत्योपजापार्थं च—परस्य शत्रोः कृत्यानां कार्याणाम् उपजापार्थं च भेदार्थमपि, महता—विपुलेन, कोशसञ्चयेन—धनराशिना, शकटदासः, स्थापित—नियोजितः। प्रतिक्षणम्—सततम् अरातिवृत्तान्तोपलब्धये—अरातेः शत्रोः वृत्तान्तस्य उदन्तस्य उपलब्धये प्राप्तये, तत्संहतिभेदनाय च—तेषां शत्रूणां संहतेः संघातस्य भेदनाय भङ्गाय च, जीवसिद्धिप्रभृतयः—जीवसिद्धिप्रमुखाः, सुहृदः—मित्राणि, व्यापारिताः—नियोजिताः।

हिंदी अनुवाद—और भी दुष्टे !, इसलिए मैं आधार को ही नष्ट करके तुम्हारे मनोरथ को चकनाचूर कर देता हूँ। [ सोचकर ] नगर से निकलते