मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 220, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १२६
व्यापादयति इति एकपुरुष—वि—आ√पद्+णिच्+णिनि कर्तरि साधुकारिणि आवश्यके वा। यह 'विषाङ्गना' और 'शक्तिः' दोनों का विशेषण है। **विष्णोः—**कृष्ण। **विष्णुगुप्तहतकस्य—**हत एव हतकः हत+क स्वार्थे। विष्णुगुप्तश्चासौ हतकश्च ‘कुत्सितानि कुत्सनैः’ इति समासः। **आत्यन्तिकश्रेयसे—**नित्य या सार्वकालिक कल्याण के लिये। अत्यन्ते भवम् आत्यन्तिकम् अत्यन्त+ठञ्—इक। आत्यन्तिकम् श्रेयः कर्मधारय स०, तस्मै। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ इति सूत्रेण कर्मणि चतुर्थी। **हैडिम्बेयम्—**घटोत्कच। हिडिम्बायाः अपत्यं पुमान् इति हिडिम्बा+ढक्—एय=हैडिम्बेयः, तम्। इस पद्य में विषमालंकार पूर्णोपमा अलंकार से संकीर्ण है। इसमें वैदर्भी रीति है, माधुर्य गुण है और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ मे देखिये ॥ १५ ॥
**विराधगुप्तः—**अमात्य ! दैवस्यात्र कामचारः, किमत्र क्रियते ?
**राक्षसः—**ततस्ततः ?
**विराधगुप्तः—**ततः पितृवधपरित्रासादपक्रान्ते कुसुमपुरात् कुमारे मलयकेतौ, विश्वासिते च पर्वतकभ्रातरि वैरोचके, प्रकाशिते च चन्द्रगुप्तस्य नन्दभवनप्रवेशे, चाणक्यहतकेनाहूयाभिहिताः कुसुमपुरनिवासिनः सर्वे एव सूत्रधाराः यथा—‘सांवत्सरिकवचनादद्यैवार्धरात्रसमये एवाभिमतः चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति, ततः प्रथमद्वारात्प्रभृति संस्क्रियतां राजभवनम्’ इति। ततः सूत्रधारैरभिहितम्—‘आर्य ! प्रथममेव देवस्य चन्द्रगुप्तस्य नन्दभवनप्रवेशमुपलभ्य सूत्रधारेण दारुवर्मणा कनकतोरणन्यासादिभिः संस्कारविशेषैः संस्कृतं प्रथमराजद्वारम्। इदानीमस्माभिरभ्यन्तरे संस्कारो विधेय.’ इति। ततश्चाणक्यवटुना, अनादिष्टेनैव दारुवर्मणा संस्कृतं राजभवनद्वारमिति परितुष्टेनेव, दारुवर्मणः सुचिरं दाक्ष्यमभिनन्द्याभिहितम्—‘अचिरादस्य दाक्ष्यस्यानुरूपं फलमधिगमिष्यसि दारुवर्मन् !’
**व्याख्या—दैवस्य—**भाग्यस्य, **कामचारः—**स्वेच्छा। **पितृवधपरित्रासात्—**पितुः तातस्य वधः नाशः तस्मात् परित्रासः भयम् तस्मात्, **कुसुमपुरात्—**पाटलि-
मु० रा—६