भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 220, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 220

द्वितीयोऽङ्कः १२६

व्यापादयति इति एकपुरुष—वि—आ√पद्+णिच्+णिनि कर्तरि साधुकारिणि आवश्यके वा। यह 'विषाङ्गना' और 'शक्तिः' दोनों का विशेषण है। **विष्णोः—**कृष्ण। **विष्णुगुप्तहतकस्य—**हत एव हतकः हत+क स्वार्थे। विष्णुगुप्तश्चासौ हतकश्च ‘कुत्सितानि कुत्सनैः’ इति समासः। **आत्यन्तिकश्रेयसे—**नित्य या सार्वकालिक कल्याण के लिये। अत्यन्ते भवम् आत्यन्तिकम् अत्यन्त+ठञ्—इक। आत्यन्तिकम् श्रेयः कर्मधारय स०, तस्मै। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ इति सूत्रेण कर्मणि चतुर्थी। **हैडिम्बेयम्—**घटोत्कच। हिडिम्बायाः अपत्यं पुमान् इति हिडिम्बा+ढक्—एय=हैडिम्बेयः, तम्। इस पद्य में विषमालंकार पूर्णोपमा अलंकार से संकीर्ण है। इसमें वैदर्भी रीति है, माधुर्य गुण है और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ मे देखिये ॥ १५ ॥

**विराधगुप्तः—**अमात्य ! दैवस्यात्र कामचारः, किमत्र क्रियते ?

**राक्षसः—**ततस्ततः ?

**विराधगुप्तः—**ततः पितृवधपरित्रासादपक्रान्ते कुसुमपुरात् कुमारे मलयकेतौ, विश्वासिते च पर्वतकभ्रातरि वैरोचके, प्रकाशिते च चन्द्रगुप्तस्य नन्दभवनप्रवेशे, चाणक्यहतकेनाहूयाभिहिताः कुसुमपुरनिवासिनः सर्वे एव सूत्रधाराः यथा—‘सांवत्सरिकवचनादद्यैवार्धरात्रसमये एवाभिमतः चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति, ततः प्रथमद्वारात्प्रभृति संस्क्रियतां राजभवनम्’ इति। ततः सूत्रधारैरभिहितम्—‘आर्य ! प्रथममेव देवस्य चन्द्रगुप्तस्य नन्दभवनप्रवेशमुपलभ्य सूत्रधारेण दारुवर्मणा कनकतोरणन्यासादिभिः संस्कारविशेषैः संस्कृतं प्रथमराजद्वारम्। इदानीमस्माभिरभ्यन्तरे संस्कारो विधेय.’ इति। ततश्चाणक्यवटुना, अनादिष्टेनैव दारुवर्मणा संस्कृतं राजभवनद्वारमिति परितुष्टेनेव, दारुवर्मणः सुचिरं दाक्ष्यमभिनन्द्याभिहितम्—‘अचिरादस्य दाक्ष्यस्यानुरूपं फलमधिगमिष्यसि दारुवर्मन् !’

**व्याख्या—दैवस्य—**भाग्यस्य, **कामचारः—**स्वेच्छा। **पितृवधपरित्रासात्—**पितुः तातस्य वधः नाशः तस्मात् परित्रासः भयम् तस्मात्, **कुसुमपुरात्—**पाटलि-

मु० रा—६