मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 228, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १३७
करता हुआ ही मारा गया। उसके बाद यन्त्रयुक्त तोरण के गिराने से अपने वध की संभावना करके दारुवर्मा ने शीघ्र ही ऊँचे तोरण के स्थान पर चढ़कर यन्त्र-चालन के कारणस्वरूप लोहे की कील को लेकर हथिनी पर बैठे ही बेचारे वैरोचक को मार डाला।
टिप्पणी—उत्प्रेक्षमाणा—संभावना करती हुई। उत्-प्र √ ईक्ष् + शानच् कर्तरि। अतिजवनतया—तेज चाल से। √ जु + ल्युट् भावे = जवनम्। अतिशयितं जवनमस्य इति अतिजवनम्, सामान्ये नपुंसकम्। तस्य भावः, तया। हेतौ तृतीया। यह 'अभिघात' का हेतु है। गत्यन्तरम्—दूसरी गति को। अन्या गतिः इति गत्यन्तरम् मयूरव्यंसकादित्वात् स०। प्रत्याकलित—धृत। प्रति-आ √ कल् + णिच् + क्त कर्मणि। व्यग्र—व्यस्त। विशिष्टम् अग्रम् अस्य इति व्यग्रः। चन्द्रगुप्तप्रत्याशया—चन्द्रगुप्तसम्बन्धिनी प्रत्याशा, तया। हेतौ तृतीया।
राक्षसः—कष्टम् ! अनर्थद्वयमापतितम् । न हतश्चन्द्रगुप्तो हतौ वैरोचकबर्बरकौ !! [ सावेगमात्मगतम् ] नैतावुभौ हतौ, दैवेन वयमेव हताः । [ प्रकाशम् ] अथ स सूत्रधारो दारुवर्मा क्व ?
विराधगुप्तः—वैरोचकपुरः सरेण पदातिलोकेन लोष्टघातं हतः ।
राक्षसः—[ सास्रम् ] कष्टम् ! अहो ! वत्सलेन सुहृदा दारुवर्मणा वियुक्ताः स्म । अथ तत्रत्येन भिषजाऽभयदत्तेन किमनुष्ठितम् ?
विराधगुप्तः—अमात्य ! सर्वमनुष्ठितम् ।
राक्षसः—[सहर्षम्] किं हतो दुरात्मा चन्द्रगुप्तः ?
विराधगुप्तः—अमात्य ! दैवान्न हतः ।
राक्षसः—[ सविषादम् ] तत् किमिदानीं कथयसि परितुष्टः 'सर्वमनुष्ठितम्' इति ।
विराधगुप्तः—अमात्य ! कल्पितमनेन विषचूर्णमिश्रमौषधं चन्द्रगुप्ताय । तच्च प्रत्यक्षीकुर्वता चाणक्यहतकेन कनकभाजने वर्णान्तरमुपगतमुपलभ्याभिहितश्चन्द्रगुप्तः—'वृषल ! सविषमिवौषधं, न पातव्यम् इति ।
राक्षसः—शठः खल्वसौ वटुः । अथ स वैद्यः कथम् ?