मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 232, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । १४१
उपरताः । [ सचिन्तम् ] सखे ! दैवसम्पदं पश्य दुरात्मनश्चन्द्रगुप्तहतकस्य !! कुतः ?—
कन्या तस्य वधाय या विषमयी गूढं प्रयुक्ता मया
दैवात् पर्वतकस्तया स निहतो यस्तस्य राज्यार्धभाक् ।
ये यन्त्रेषु रसेषु च प्रणिहितास्तैरेव ते घातिताः
मौर्यस्यैव फलन्ति पश्य विविधश्रेयांसि मे नीतयः ॥१६॥
व्याख्या—चन्द्रगुप्तप्रवेशात्—वृषलसन्निवेशात्, प्राक्—पूर्वम्, प्रविष्टमात्रेणैव—सन्निवेशमात्रेणैव, दुरात्मना—दुष्टेन, चाणाक्येन—विष्णुगुप्तेन, समन्तात्—चतुर्दिक्षु, अवलोकितः—दृष्टः । ततः—तत्पश्चात्, एकस्मात्—अद्वितीयस्मात्, भित्तिच्छिद्रात्—कुड्यरन्ध्रात्, गृहीतभक्तावयवां—गृहीताः मुखे धृताः भक्तस्य अन्नस्य अवयवाः खण्डाः यया तादृशीं, निष्क्रामन्ती—निर्गच्छन्ती, पिपीलिकापङ्क्तिं—पिपीलिकाश्रेणीम्, अवलोक्य—दृष्ट्वा, एतत्, गृहम्—भवनम्, पुरुषगर्भम्—पुरुषाः गर्भे यस्य तादृशम्, ( अस्ति ), इति—अस्माद्धेतोः, गृहीतार्थेन—गृहीतः अर्थः तत्त्वं येन तादृशेन चाणाक्येनेति शेषः, तदन्तःशयनगृहम्—तत् पूर्वोक्तम् अन्तःशयनगृहम् अन्तर्निद्राभवनं, दाहितम्—भस्मसात्कृतम् । तस्मिंश्च—शयनगृहे, दह्यमाने—भस्मसात्कृते सति, धूमावरुद्धदृष्टयः—धूमेन अवरुद्धा दृष्टिः येषां तथाविधाः, बीभत्सकादयः’ सर्वेएव, प्रथमम्—पूर्वम्, अपिहितनिर्गमनमार्गम्—निरुद्धबहिर्निःसरणपथम्, अनधिगम्य—अप्राप्य, ज्वलनम्—अग्निम्, उपगताः—प्राप्ताः, उपरताः—मृताश्च । सास्त्रम्—सरोदनम् । दैवसम्पदं—भाग्यसम्पत्तिम् ।
अन्वयः—मया तस्य वधाय या विषमयी कन्या गूढं प्रयुक्ता तया दैवात् सः पर्वतकः निहतः यः तस्य राज्यार्धभाक् । ये यन्त्रेषु रसेषु च प्रणिहिताः ते तैः एव घातिताः । पश्य, मे नीतयः मौर्यस्य एव विविधश्रेयांसि फलन्ति ॥ १६ ॥
व्याख्या—मया—राक्षसेन, तस्य—चन्द्रगुप्तस्य, वधाय—नाशाय, या, विषमयी—विषनिर्मिता, कन्या, गूढं—गुप्तं यथा स्यात् तथा, प्रयुक्ता—प्रेरिता, तया—विषकन्यया, दैवात्—भाग्यवशात्, सः पर्वतकः, निहतः—विनाशितः, यः, तस्य—चन्द्रगुप्तस्य, राज्यार्धभाक्—अर्धराज्यस्य हर्ता । ये—जनाः, यन्त्रेषु—प्राणविघातसाधनपदार्थेषु, रसेषु च—विषेषु च, प्रणिहिताः—व्यापारिताः, ते, तैः एव—यन्त्रैः विषैः एव च, घातिताः—हिंसिताः । पश्य—विभावय, मे—मम,