मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 248, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १५६
विरुद्धं प्रियैः विप्रियम् । कृत्वा नास्ति—यहाँ 'स्थितस्य' का अध्याहार करके 'कृत्वा स्थितस्य जनस्य प्रवेशो नास्ति' ऐसा वाक्य समझना चाहिए; अन्यथा 'समानकर्तृकयोः पूर्वकाले' सूत्र से 'कृत्वा' मे क्त्वा प्रत्यय नही होगा । विश्रामय—वि√श्रम्+णिच्+लोट्—हि । यहाँ 'मितां ह्रस्वः' सूत्र से ह्रस्वता हो जाने पर 'विश्रमय' रूप होना चाहिए; किन्तु व्यवस्थितविभाषा का आश्रयण करने से 'विश्रामय' और 'विश्रमय' दोनो रूप शुद्ध कहे जा सकते हैं ।
राक्षस.—सखे विराघगुप्त ! वर्णयेदानीं कुसुमपुरवृत्तान्तशेषम् । अपि क्षमन्ते कुसुमपुरनिवासिनोऽस्मदुपजापं चन्द्रगुप्तप्रकृतयः ?
विराधगुप्तः—अमात्य ! वाढं क्षमन्ते, ननु यथाप्रधानमनुगच्छन्त्येव ।
राक्षसः—सखे ! किं तत्र कारणम् ?
विराधगुप्तः—अमात्य ! इदं तत्र कारणम्—मलयकेतोरपक्रमणात् प्रभृति पीडितश्चन्द्रगुप्तेन चाणक्य इति । चाणक्योऽपि जितकाशितयाऽसहमानस्तैस्तैराज्ञाभङ्गैश्चन्द्रगुप्तस्य चेतसः पीडामुपचिनोति, अयमपि ममानुभवः ।
राक्षसः—[ सहर्षम् ] सखे विराधगुप्त ! तद्गच्छ त्वम् अनेनैव आहितुण्डिकच्छद्मना पुनः कुसुमपुरमेव । तत्र हि मे सुहृत् वैतालिकव्यञ्जनः स्तनकलसो नाम प्रतिवसति । स त्वया मद्वचनात् वाच्यः, यथा चाणक्येन क्रियमाणेष्वाज्ञाभङ्गेषु चन्द्रगुप्तस्त्वया समुत्तेजनसमर्थैः श्लोकैरुपश्लोकयितव्यः इति । कार्यञ्चातिनिभृतं करभकहस्तेन सन्देष्टव्यम् इति ।
विराधगुप्तः—यदाज्ञापयत्यमात्यः ।
[ इति निष्क्रान्तः । ]
हिन्दी अनुवाद—राक्षस—मित्र विराधगुप्त ! अब कुसुमपुर के शेष वृत्तान्त का वर्णन करो । क्या कुसुमपुर मे रहने वाली चन्द्रगुप्त की प्रजाये हमारे द्वारा डाली गई फूट को सहन करती है ?
विराधगुप्तः—अमात्य ! हाँ, सहन करती है, और प्रधान (राजा चन्द्रगुप्त तथा मन्त्री चाणक्य ) के अनुसार ( परस्पर फूट डालने के कार्य का ) अनु-