भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 248, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 248

द्वितीयोऽङ्कः १५६

विरुद्धं प्रियैः विप्रियम् । कृत्वा नास्ति—यहाँ 'स्थितस्य' का अध्याहार करके 'कृत्वा स्थितस्य जनस्य प्रवेशो नास्ति' ऐसा वाक्य समझना चाहिए; अन्यथा 'समानकर्तृकयोः पूर्वकाले' सूत्र से 'कृत्वा' मे क्त्वा प्रत्यय नही होगा । विश्रामय—वि√श्रम्+णिच्+लोट्—हि । यहाँ 'मितां ह्रस्वः' सूत्र से ह्रस्वता हो जाने पर 'विश्रमय' रूप होना चाहिए; किन्तु व्यवस्थितविभाषा का आश्रयण करने से 'विश्रामय' और 'विश्रमय' दोनो रूप शुद्ध कहे जा सकते हैं ।

राक्षस.—सखे विराघगुप्त ! वर्णयेदानीं कुसुमपुरवृत्तान्तशेषम् । अपि क्षमन्ते कुसुमपुरनिवासिनोऽस्मदुपजापं चन्द्रगुप्तप्रकृतयः ?

विराधगुप्तः—अमात्य ! वाढं क्षमन्ते, ननु यथाप्रधानमनुगच्छन्त्येव ।

राक्षसः—सखे ! किं तत्र कारणम् ?

विराधगुप्तः—अमात्य ! इदं तत्र कारणम्—मलयकेतोरपक्रमणात् प्रभृति पीडितश्चन्द्रगुप्तेन चाणक्य इति । चाणक्योऽपि जितकाशितयाऽसहमानस्तैस्तैराज्ञाभङ्गैश्चन्द्रगुप्तस्य चेतसः पीडामुपचिनोति, अयमपि ममानुभवः ।

राक्षसः—[ सहर्षम् ] सखे विराधगुप्त ! तद्गच्छ त्वम् अनेनैव आहितुण्डिकच्छद्मना पुनः कुसुमपुरमेव । तत्र हि मे सुहृत् वैतालिकव्यञ्जनः स्तनकलसो नाम प्रतिवसति । स त्वया मद्वचनात् वाच्यः, यथा चाणक्येन क्रियमाणेष्वाज्ञाभङ्गेषु चन्द्रगुप्तस्त्वया समुत्तेजनसमर्थैः श्लोकैरुपश्लोकयितव्यः इति । कार्यञ्चातिनिभृतं करभकहस्तेन सन्देष्टव्यम् इति ।

विराधगुप्तः—यदाज्ञापयत्यमात्यः ।

[ इति निष्क्रान्तः । ]

हिन्दी अनुवादराक्षस—मित्र विराधगुप्त ! अब कुसुमपुर के शेष वृत्तान्त का वर्णन करो । क्या कुसुमपुर मे रहने वाली चन्द्रगुप्त की प्रजाये हमारे द्वारा डाली गई फूट को सहन करती है ?

विराधगुप्तः—अमात्य ! हाँ, सहन करती है, और प्रधान (राजा चन्द्रगुप्त तथा मन्त्री चाणक्य ) के अनुसार ( परस्पर फूट डालने के कार्य का ) अनु-