मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 250, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १६१
त्रयोऽलङ्कारविशेषा विक्रीयन्ते, तत् प्रत्यक्षीकरोत्वमात्यः । )
राक्षसः— [ विलोक्यात्मगतम् ] अहो ! महार्हाण्याभरणानि । [ प्रकाशम् ] भद्र ! उच्चतां शकटदासः, परितोष्य विक्रेतारं गृह्णन्तामिति ।
पुरुषः— जं अमच्चो आणवेदि । (यदमात्य आज्ञापयति ।)
[ इति निष्क्रान्तः ]
राक्षसः— [ स्वगतम् ] यावदहमपि कुसुमपुराय करभकं प्रेषयामि । [ उत्थाय ] अपि नाम दुरात्मनश्चाणक्याच्चन्द्रगुप्तो भिद्येत, अथवा सिद्धमेव समीहितं पश्यामि । कुतः—
मौर्यस्तेजसि सर्वभूतलभुजामाज्ञापको वर्तते चाणक्योऽपि मदाश्रयादयमभूद्राजेति जातस्मयः । राज्यप्राप्तिकृतार्थमेकमपरं तीर्णप्रतिज्ञार्णवं सौहार्दात् कृतकृत्यतैव नियतं लब्धान्तरा भेत्स्यति ॥२३॥
[ इति निष्क्रान्ताः सर्वे ]
॥ इति राक्षसविचारनामकद्वितीयोऽङ्कः ॥
अन्वयः— मौर्यः सर्वभूतलभुजाम् आज्ञापकः तेजसि वर्तते, चाणक्योऽपि मदाश्रयात् अयं राजा अभूत् इति जातस्मयः, राज्यप्राप्तिकृतार्थम् एकं तीर्णप्रतिज्ञार्णवम् अपरं कृतकृत्यता एव लब्धान्तरा नियतं सौहार्दात् भेत्स्यति ॥२३॥
व्याख्या— मौर्यः—वृषलः, सर्वभूतलभुजाम्—सकलभूपतीनाम्, आज्ञापकः—शासकः, (सन्) तेजसि—प्रतापे, वर्तते—विद्यते, चाणक्योऽपि—कौटिल्योऽपि, मदाश्रयात्—मम साहाय्यात्, अयं—मौर्यः, राजा—भूपतिः, अभूत्—जातः, इति हेतोः जातस्मयः—गर्वितः, राज्यप्राप्तिकृतार्थम्—राज्यस्य प्राप्त्या लाभेन कृतार्थं—सफलम्, एकं—मौर्यम्, तीर्णप्रतिज्ञार्णवं—तीर्णः प्रतिज्ञारूपः अर्णवः समुद्रः येन तादृशम्, अपरं—चाणक्यं ( च ), कृतकृत्यता एव—सम्पादितकार्यता एव, लब्धान्तरा—लब्धः प्राप्तः अन्तरः अवकाशः यया तादृशी ( सती ), नियतं—निश्चितं, सौहार्दात्—मित्रभावात्, भेत्स्यति—विघटयिष्यति ॥ २३ ॥
मु० रा०—११