मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 270, कुल 488 में से
संदर्भ में पढ़ें| तृतीयोऽङ्कः | १८३ |
|---|
उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रो
नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
चाणक्यस्त्वमपि च नैव केवलं ते
साधर्म्यं मदनुकृतेः प्रधानवैरम् ॥ १२ ॥
अन्वय—एषः चन्द्रगुप्तः उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रः असौ नन्दः न भवति । त्वमपि च नैव चाणक्यः । केवलं प्रधानवैरं ते मदनुकृतेः साधर्म्यम् ॥ १२ ॥
व्याख्या—एषः—अयम्, चन्द्रगुप्तः—मौर्यः (भवति), उत्सिक्तः—गर्वितः, कुसचिवदृष्टराज्यतन्त्रः—कुसचिवैः कुत्सितामात्यैः दृष्टम् अवलोकितम् राज्यतन्त्रम् राज्यभारः यस्य तादृशः, असौ—अयं, नन्दः—तदाख्यः नृपः, न भवति—नास्ति । त्वमपि च—भवानपि, नैव—नह्येव, चाणक्यः—कौटिल्यः (असि) । केवलम्—एकम्, प्रधानवैरम्—मुख्यशत्रुता, ते—तव, मदनुकृतेः—ममानुकरणस्य, साधर्म्यम् (अस्ति) ॥ १२ ॥
हिन्दी अनुवाद—[आकाश में प्रत्यक्ष (देखते हुए) की तरह दृष्टि बाँधकर] राक्षस ! राक्षस ! इस दुष्प्रयत्न से विरत हो जाओ ।
यह चन्द्रगुप्त है, गर्वित तथा बुरे मंत्रियों को राज्य-भार सौंपने वाला नन्द यह नहीं है और तुम भी चाणक्य नहीं ही हो । केवल मुख्य शत्रुता तुम्हारे मेरे अनुकरण की समानता रखती है ॥ १२ ॥
टिप्पणी—राक्षस राक्षस !—यहाँ कार्य का नैरन्तर्य सूचित करने के लिए शब्द की आवृत्ति की गई है । विरम्यताम्—निवृत्यताम् । दुर्व्यवसितात् — दुः दुष्टं व्यवसितं व्यापारः, तस्मात् । अत्र 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति वार्तिकेन अपादानसंज्ञा—पञ्चमी । प्रधानवैरम्—यहाँ चाणक्य कहना चाहता है कि हे राक्षस ! तुम बुद्धिप्रकर्षादि मे मेरी बराबरी नहीं कर सकते हो । केवल प्रमुख राजा के साथ वैर करने में मेरे साथ तुम्हारी समानता है । क्योकि जैसे मैने नन्दों को समूल नष्ट कर दिया वैसे तुम भी चन्द्रगुप्त को समूल नष्ट करना चाहते हो; किन्तु न तो चन्द्रगुप्त के समान पराक्रमी राजा नन्द था और न मेरे जैसे बुद्धिमान् मंत्री तुम हो । साधर्म्यम्—समानता । समानो धर्मः सधर्मः कर्मधारय स०, समान इत्यस्य सादेशः । स एव इति