मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 319, कुल 488 में से
संदर्भ में पढ़ें२३४ मुद्राराक्षसम्
अथ च—अपि च, मत्कृत्याना—मम प्रयोगाणाम्, निकामम्—यथेच्छम्, उपग्रहे—प्रतीकारे, विहिते—साधिते, इह—अस्मिन् सुविहिते मत्प्रयोग, इदम्—एतत्, कथ—केन प्रकारेण, इति—अनया रीत्या, अनिशम्—निरन्तरम्, उन्निद्रस्य—जाग्रत , मम—मे, निशा—रात्रय , प्रयान्ति—व्यतियन्ति ॥ २ ॥
हिन्दी अनुवाद—कार्य के प्रारम्भ मे भाग्य की प्रतिकूलता को सोचते हुए, चाणक्य की स्वाभाविक कुटिल बुद्धि के विषय मे ऊहापोह करते हुए और अपने कार्यों के अत्यन्त विफल हा जाने पर 'यहाँ यह कैसे ( हुआ )' इस चिन्ता मे निरन्तर जागते हुए मेरी रात्रियाँ व्यतीत होती हैं ॥ २ ॥
टिप्पणी—अविधेयताम्—प्रतिकूलता का । वि √ धा + यत् कर्मणि = विधेय । न विधेय अविधेय । तस्य भाव । तत्ता, ताम् । मत्कृत्यानाम्—मेरे विषकन्या आदि कपट कार्यों का । उपग्रहे—निरोधे । उप √ ग्रह् + अप् भावे = उपग्रह , तस्मिन् । अनिशम्—सतत । अविद्यमाना निशा यस्मिन् कर्मणि तत् यथा तथा । उन्निद्रस्य—उद्गता अच्छिन्ना निद्रा यस्य स उन्निद्र , तस्य । इस श्लोक मे समुच्चय नामक अलङ्कार है, वैदर्भी रीति है और हरिणी छन्द है। इस छन्द का लक्षण ३, ६ मे देखिए ॥ २ ॥
अपि च—
कार्योपक्षेपमादौ तनुमपि रचयन्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं गूढमुद्भे दयंश्च । कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजात कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ॥ ३ ॥
अन्वय —आदौ तनुमपि कार्योपक्षेप रचयन्, तस्य विस्तारमिच्छन्, गर्भितानां बीजानाम् अतिगहन फल गूढमुद्भेद्यश्च बुद्ध्या विमर्शं कुर्वन् प्रसृतम् अपि कार्यजात पुन संहरन् नाटकाना कर्ता वा अस्मद्विधो वा इम क्लेशम् अनुभवति ॥३॥
व्याख्या—आदौ—प्रारम्भे, तनुमपि—स्वल्पमपि, कार्योपक्षेप—काव्यस्य शत्रुपराभवात्मकस्य दृश्यस्य उपक्षेप सामाद्युपाय ( नाटककारपक्षे ) बीजन्यास,