मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 318, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । २३३
राक्षस कार्यों की चिन्ता के कारण जागते रहने से उत्पन्न सिर-पीड़ा से पीड़ित होकर अभी भी शय्या को नहीं छोड़ रहे है। इसलिए क्षण भर ठहरो, जब तक कि मैं अवसर पाकर तुम्हारे आने की सूचना दे दूँ।
पुरुष—भद्रमुख ! जैसी तुम्हारी इच्छा।
[ तब पलंग पर लेटे चिन्तामग्न राक्षस आसन पर बैठे शकटदास के साथ प्रवेश करता है।]
राक्षस—[ मन में ]
टिप्पणी—दौवारिकाणाम्—द्वारत्राणनियुक्तानाम्। द्वारे नियुक्ताः इति द्वार + ठक्—इक, 'द्वारादीनां च' इत्यनेन ऐजागमः। करभक इव—गजशावक इव। त्वरयन्—शीघ्रं साधयन्। √त्वर् + णिच् + शतृ। पाटलिपुत्रात्—कुसुमपुरात्। पुत्रक नामक राजा ने इस नगरी की स्थापना की थी। इसी का आधुनिक नाम पटना है। समुत्पन्नशीर्षवेदनः—शीर्षस्य शीर्षे वा वेदना शीर्षवेदना। समुत्पन्ना शीर्षवेदना अस्य इति समुत्पन्नशीर्षवेदनः = सञ्जातोत्तमाङ्गपीडः। निवेदयामि—अत्र भविष्यत्समीप्ये लट्। भद्रमुख—भद्रं मुखमस्य इति भद्रमुखः, तत्सम्बुद्धौ भद्रमुख इति। ते रोचते—तुभ्यम् इत्यस्य 'ते मयावेकवचनस्य' इत्यनेन ते इत्यादेशः। अत्र 'रुच्यर्थानां प्रीयमाणः' इत्यनेन चतुर्थी।
मम विमृशतः कार्यारम्भे विधेरविधेयता
सहजकुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
अथ च विहिते मत्कृत्यानां निकाममुपग्रहे
कथमिदमिहेत्युन्निद्रस्य प्रयान्त्यनिशं निशाः ॥ २ ॥
अन्वयः—कार्यारम्भे विधेः अविधेयतां विमृशतः कौटिल्यस्य सहजकुटिलां मतिं प्रचिन्तयतः अथ च मत्कृत्यानां निकामम् उपग्रहे विहिते 'इह इदं कथम्' इति अनिशम् उन्निद्रस्य मम निशाः प्रयान्ति ॥ २ ॥
व्याख्या—कार्यारम्भे—कृत्योपक्रमे, विधेः—भाग्यस्य, अविधेयतां—स्वातन्त्र्यम् अननुकूलतामिति यावत्, विमृशतः—विचारयतः, कौटिल्यस्य—चाणक्यस्य, सहजकुटिलां—स्वभावक्रूरां, मतिं—बुद्धिं, प्रचिन्तयतः—पर्यालोचयतः,