मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 323, कुल 488 में से
संदर्भ में पढ़ें२३८ मुद्राराक्षसम्
अभिसन्धातुम्—पराभवितुम् प्रतारयितुमित्यर्थ । वामाक्षिस्पन्दम्— वामम् अक्षि, तस्य स्पन्द, तम् । वाईं आंख का फड़कना पुरुष के लिए अशुभ- सूचक है। इसीलिए राक्षस 'तदपि नाम'—इत्यादि अपनी उक्ति के साथ द्वारपाल की उक्ति को जोड़कर 'दुरात्मा चाणक्यवटुर्जयति, अभिसन्धातुं शक्य स्यादमात्य,' ऐसा वाक्य पढ़ता है। वागीश्वरी—वाग्देवता । प्रस्तावगता—प्रस्ताव प्रक- रण गता प्राप्ता । प्रनिपादयति—कथयति सूचयतीति यावत् ।
करभक—[ राक्षसमुपसृत्य ] जेदु जेदु अमच्चो । जयतु जयत्व- मात्य । )
राक्षस—[ नाट्येनावलोक्य ] भद्र करभक ! स्वागतम् । उपविश्य- ताम् ।
करभक—ज अमच्चो आणवेदि । ( यदमात्य आज्ञापयति । ) [ इति भूमावुपविशति । ]
राक्षस—[ आत्मगतम् ] अथ कस्मिन् प्रयोजने मयाऽद्य प्रणिधिः प्रहित इति प्रभूतत्वात् प्रयोजनानां न खल्ववधारयामि । [ इति चिन्तां नाटयति । ]
[ तत् प्रविशति चत्रपाणिरपर पुरुष । ]
पुरुष—ओसरध अज्जा ! ओसरध । अवेध माणहे ! अवेध । किं ण पेक्खह ? । ( अपसरत आर्या ! अपसरत । अपेत मान्या ! अपेत । किं न पश्यथ ? )
दूरे पच्चासत्ती दमणमवि दुल्तह अधण्णेहि । कल्लाणकुलहराण देवाण ज मनुस्सदेआण ॥ ४ ॥ (दूरे प्रत्यासत्तिर्दर्शनमपि दुर्लभमधन्यै कल्याणकुलधराणां देवानाम्च मनुष्यदेवानाम् ॥ ४ ॥ )
अन्वय—कल्याणकुलधराणा देवाना मनुष्यदेवाना च दर्शनमपि अधन्यैः दुर्लभम्, प्रत्यासत्ति दूरे ॥ ४ ॥
व्याख्या—कल्याणकुलधुराणां—(देवपक्षे) कल्याण स्वर्णामय कुलधरः - कुलपर्वत मेरु येषा तादृशाना _ (राजपक्षे कल्याणानां कुल कल्याणकुल,