भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 344, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 344

चतुर्थोऽङ्कः १२१

कुमारस्य ..... अधिराजशब्देन—अधिराज इत्याख्यया, कुमारशब्दे —कुमार इत्याख्यायाम्, अतिरस्कृते अन्तर्द्धानमसते यावत् कुमारसंज्ञां निरस्य अधिराजसंज्ञां नारोपयसि तावत् इत्यर्थः । अधिको राजा अधिराजः प्रादिसमासः, 'राजाऽहः सखिभ्यष्टच्' इत्यनेन टच्प्रत्ययः । सम्भृतबलैः —एकत्रितसैन्यैः । शत्रुव्यसनम्—शत्रोः व्यसनम् विपद् । उदासितव्यम्—तूष्णीं वर्तितव्यम् ।

मलयकेतुः—आर्य ! ननु विशेषतश्चन्द्रगुप्तप्रकृतीते ।

राक्षसः—किं कारणं यदस्यामात्यापराधप्रभवं व्यसनम् ?

मलयकेतुः—चन्द्रगुप्तप्रकृतीनां हि चाणक्यदोषा एव विरागहेतवः। तस्मिन्निराकृते प्रथममपि चन्द्रगुप्तानुरक्ताः प्रकृतयः इदानीं पुनः सुतरामेव तत्रानुरागं दर्शयिष्यन्ति ।

राक्षसः—कुमार ! नैतदेवं, इह द्विविधाः प्रकृतयः — चन्द्रगुप्तसहोत्थायिन्यो नन्दकुलानुरक्ताश्च । तत्र चन्द्रगुप्तसहोत्थायिनीनां प्रकृतीनां चाणक्यदोषा एव विरागहेतवः, न नन्दकुलानुरक्तानाम् । तास्तु खलु नन्दकुलमनेन पितृकुलभूतं कृत्स्नं कृतघ्नेन घातितमित्यपराधप्राधान्येन विप्रकृताः सत्यः स्वाश्रयमलभमानाश्चन्द्रगुप्तमेवानुवर्त्तन्ते । तास्त्वं पुनः प्रतिपक्षोद्धरणे सम्भावितशक्तिमभियोगात्प्रख्यातमपदानं परित्यज्य त्वामेवाश्रयिष्यन्ते इति । अत्र कुमारस्य भयमेव निदर्शनम् ।

व्याख्याचन्द्रगुप्तप्रकृतीनां—मौर्यप्रजानां, चाणक्यदोषा एव-कौटिल्यहत्यादय एव, विरागहेतवः—अपरागकारणानि भवन्ति शेषः । तस्मिन्-कौटिल्ये, निराकृते—दूरीकृते सति, प्रथममपि—पूर्वमपि, चन्द्रगुप्तानुरक्ताः—शत्रुगुणे मौर्ये अनुरक्ताः अनुरागिण्यः, प्रकृतयः—प्रजाः, इदानीम्—अधुना, पुनः-भूयः, सुतरामेव-सर्वथैव, तत्र-चन्द्रगुप्ते, अनुरागं—स्नेहं, दर्शयिष्यन्ति-