भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 346, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 346

चतुर्थोऽङ्कः २६३

स्वाश्रयम्—आ√श्रि+अच् कर्मणि = आश्रयः। सुशोभनः आश्रयः स्वाश्रयः, तम्। वयमेव—अत्र 'अस्मदो द्वयोश्च' इत्यनेन एकत्वे बहुवचनम्। निदर्शनम्—निदर्श्यते अनेन इति नि√दृश्+णिच्+ल्युट् करणे = निदर्शनम् = दृष्टान्तः।

मलयकेतुः—अमात्य ! किमेतदेवैकं सचिवव्यसनमभियोगकारणं चन्द्रगुप्तस्य ? आहोस्विदन्यदप्यस्ति ?

राक्षसः—कुमार ! किमन्यैः बहुभिरपि ? एतद्धि तत्र प्रधानतमम्।

मलयकेतुः—अमात्य ! कथं प्रधानतमं नाम ? किमिदानीं चन्द्रगुप्तः स्वराज्यकार्यधुरामन्यत्र मन्त्रिणि आत्मनि वा समासज्य स्वयं प्रतिविधातुमसमर्थः स्यात् ?

राक्षसः—बाढम्, असमर्थ एव।

मलयकेतुः—किं कारणम् ?

राक्षसः—स्वायत्तसिद्धिषु उभयायत्तसिद्धिषु वा भूमिपालेषु कदाचिदेतत् सम्भवति, न तु चन्द्रगुप्ते। चन्द्रगुप्तस्तु दुरात्मा नित्यं सचिवायत्तसिद्धावेवावस्थितश्चक्षुर्विकल इवाप्रत्यक्षसर्वलोकव्यवहारः कथमिव स्वयं प्रतिविधातुं समर्थः स्यात् ? कुतः—

अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ १३ ॥

अन्वयः—श्रीः अत्युच्छ्रिते मन्त्रिणि पार्थिवे च पादौ विष्टभ्य उपतिष्ठते। स्त्रीस्वभावात् भरस्य असहा सा तयोः द्वयोः एकतरं जहाति ॥ १३ ॥

व्याख्याश्रीः—राजलक्ष्मीः अत्युच्छ्रिते—अत्युन्नते, मन्त्रिणि—अमात्ये, पार्थिवे च—नृपे च, पादौ—चरणौ, विष्टभ्य—व्यवस्थाप्य, उपतिष्ठते—सङ्गता भवतीत्यर्थः। स्त्रीस्वभावात्—नारीजनसुलभत्वात्, भरस्य—स्वदेहभरस्य,

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 346, कुल 488 में से · BharatKosha