मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 348, कुल 488 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २६५
मन्दः आत्मा बुद्धिः यस्य सः । चक्षुर्विकलः—विगता कला अस्य इति विकलः। चक्षुभ्यां विकलः। अप्रत्यक्षसर्वलोकव्यवहारः—अप्रत्यक्षः अगोचरः सर्वलोकानां व्यवहारो यस्य सः । अत्युच्छ्रिते—अत्यंत उच्च। यह 'मन्त्रिणि' और 'पार्थिवे' दोनों का विशेषण है। अति-उद् √श्रि + क्त कर्तरि। विष्टभ्य—रखकर। वि √स्तम्भ् + क्त्वा—ल्यप्, 'स्तम्भेः' इति षत्वम्। जहाति—√हा (त्यागे) + लट्—ति। इस श्लोक में समासोक्ति अलंकार है, प्रसाद गुण है, वैदर्भी रीति है और उपजाति छन्द है। इसका लक्षण २, २ में देखिए ॥१३॥
अपि च—
नृपोऽपकृष्टः सचिवात्तदर्पणः
स्तनन्धयोऽत्यन्तशिशुः स्तनादिव ।
अदृष्टलोकव्यवहारमन्दधी-
र्मुहूर्तमप्युत्सहते न वर्तितुम् ॥१४॥
अन्वयः—सचिवात् अपकृष्टः तदर्पणः अदृष्टलोकव्यवहारमन्दधीः नृपः स्तनात् ( अपकृष्टः ) अत्यन्तशिशुः स्तनन्धय इव मुहूर्तमपि वर्तितु न उत्सहते ॥ १४ ॥
व्याख्या—सचिवात्—अमात्यात्, अपकृष्टः—पृथग्भूतः, तदर्पणः—तस्मिन् सचिवे एव अर्पणं राज्यभारसमर्पणं यस्य स तथाभूतः, अदृष्टलोकव्यवहारमन्दधीः—अदृष्टः अविदितः लोकस्य संसारस्य व्यवहारः आचारः यस्य तादृशः तेन च हेतुना मन्दधीः मूढमतिः, नृपः—राजा, स्तनात्—मातृस्तनात्, (अपकृष्टः) अत्यन्तशिशुः—अतिबालः, स्तनन्धय इव—स्तनपायी इव, मुहूर्तमपि—क्षणमपि, वर्तितुं—स्थातुं, न उत्सहते—न क्षमते ॥ १४ ॥
हिन्दी अनुवाद—और भी—मंत्री से अलग हुआ, उस (मंत्री) को ही (राज्य-भार) सौंपने वाला और लोकव्यवहार से अनभिज्ञ होने के कारण मंद बुद्धि वाला राजा स्तन से अलग हुए निरे दुधमुंहे बच्चे के समान एक क्षण भी रहने के लिए उत्साहित नही होता है ॥ १४ ॥
टिप्पणी—तदर्पणः—√ऋ + णिच् + ल्युट्—अन भावे = अर्पणम् । तस्मिन्नेव अर्पणं यस्य सः। ऐसा राजा जिसने मंत्री को ही राज्य का भार