भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 349, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 349

२६६ मुद्राराक्षसम्

समर्पित कर दिया है मन्त्री पर ही निर्भर रहने वाला। स्तनन्धयः—स्तनं धयति पिबति इति स्तन-√धे+खश् कर्तरि, खित्त्वात् मुमागमः। इस श्लोक मे उपमा अलङ्कार है और वंशस्थविल नामक छन्द है। इस छन्द का लक्षण यह है—'जतौ तु वंशस्थमुदीरितं जरौ' ॥ १४ ॥

मलयकेतु—[आत्मगतम्] दिष्ट्या न सचिवायत्ततन्त्रोऽस्मि। [प्रकाशम्] अमात्य! यद्यप्येवं तथापि खलु बहुष्वभियोगकारणेषु सत्सु सचित्रव्यसनमभियुञ्जानस्य शत्रुमभियोक्तु नैकान्तिकी सिद्धिर्भवति।

राक्षस—ऐकान्तिकीमेव सिद्धिर्मावगन्तुमर्हति कुमार। कुतः—

त्वय्युत्कृष्टबलेऽभियोक्तरि नृपे नन्दानुरक्ते पुरे चाणक्ये चलिताधिकारविमुखे मौर्ये नवे राजनि। स्वाधीने मयि'—[इत्यर्धोक्ते लज्जा नाटयन्] '—मार्गमात्रकथनव्यापारयोगोद्यमे त्वदाज्ञाच्छान्तरितानि सम्प्रति विभो! तिष्ठन्ति साध्यानि न ॥१५॥

अन्वय—विभो! सम्प्रति उत्कृष्टबले नृपे त्वयि अभियोक्तरि पुरे नन्दानुरक्ते चाणक्ये चलिताधिकारविमुखे राजनि मौर्ये नवे मयि स्वाधीने मार्गमात्रकथनव्यापारयोगोद्यमे न साध्यानि त्वदाज्ञाच्छान्तरितानि तिष्ठन्ति ॥ १५ ॥

व्याख्या—विभो!—प्रभो!, सम्प्रति—अधुना, उत्कृष्टबले—उत्कृष्टानि उत्तमानि बलानि सैन्यानि यस्य तादृशे, नृपे—राजनि, त्वयि—मलयकेतौ, अभियोक्तरि—योद्धुमुद्यते सति, पुरे—कुसुमपुरे नन्दानुरक्ते—नन्दभक्ते सति, चाणक्ये—कौटिल्ये, चलिताधिकारविमुखे—चलितः भ्रष्टः अधिकारः नियोगः मन्त्रिपदमिति यावत् यस्य तादृशे अतएव विमुखे प्रतीकारपराङ्मुखे सति, राजनि—नृपे, मौर्ये—वृषले, नवे—नूतने सति, मयि—राक्षसे, स्वाधीने—स्वतन्त्रे सति, मार्गमात्रकथनव्यापारयोगोद्यमे—मार्गमात्रस्य युद्धपथस्य एव कथन उपदेशे यो व्यापारयोग प्रयत्नघटना स एव उद्यमः व्यवसायो यस्य तादृशे, न—अस्माकं, साध्यानि—कार्याणि, त्वदाज्ञाच्छान्तरितानि—तव या आज्ञा इच्छा तया अन्तरितानि व्यवहितानि, तिष्ठन्ति—वर्तन्ते ॥ १५ ॥

हिन्दी अनुवादमलयकेतु—[मन में] भाग्य से मैं मन्त्री के अधीन