भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

२६६ मुद्राराक्षसम्

समर्पित कर दिया है मन्त्री पर ही निर्भर रहने वाला। स्तनन्धयः—स्तनं धयति पिबति इति स्तन-√धे+खश् कर्तरि, खित्त्वात् मुमागमः। इस श्लोक मे उपमा अलङ्कार है और वंशस्थविल नामक छन्द है। इस छन्द का लक्षण यह है—'जतौ तु वंशस्थमुदीरितं जरौ' ॥ १४ ॥

मलयकेतु—[आत्मगतम्] दिष्ट्या न सचिवायत्ततन्त्रोऽस्मि। [प्रकाशम्] अमात्य! यद्यप्येवं तथापि खलु बहुष्वभियोगकारणेषु सत्सु सचित्रव्यसनमभियुञ्जानस्य शत्रुमभियोक्तु नैकान्तिकी सिद्धिर्भवति।

राक्षस—ऐकान्तिकीमेव सिद्धिर्मावगन्तुमर्हति कुमार। कुतः—

त्वय्युत्कृष्टबलेऽभियोक्तरि नृपे नन्दानुरक्ते पुरे चाणक्ये चलिताधिकारविमुखे मौर्ये नवे राजनि। स्वाधीने मयि'—[इत्यर्धोक्ते लज्जा नाटयन्] '—मार्गमात्रकथनव्यापारयोगोद्यमे त्वदाज्ञाच्छान्तरितानि सम्प्रति विभो! तिष्ठन्ति साध्यानि न ॥१५॥

अन्वय—विभो! सम्प्रति उत्कृष्टबले नृपे त्वयि अभियोक्तरि पुरे नन्दानुरक्ते चाणक्ये चलिताधिकारविमुखे राजनि मौर्ये नवे मयि स्वाधीने मार्गमात्रकथनव्यापारयोगोद्यमे न साध्यानि त्वदाज्ञाच्छान्तरितानि तिष्ठन्ति ॥ १५ ॥

व्याख्या—विभो!—प्रभो!, सम्प्रति—अधुना, उत्कृष्टबले—उत्कृष्टानि उत्तमानि बलानि सैन्यानि यस्य तादृशे, नृपे—राजनि, त्वयि—मलयकेतौ, अभियोक्तरि—योद्धुमुद्यते सति, पुरे—कुसुमपुरे नन्दानुरक्ते—नन्दभक्ते सति, चाणक्ये—कौटिल्ये, चलिताधिकारविमुखे—चलितः भ्रष्टः अधिकारः नियोगः मन्त्रिपदमिति यावत् यस्य तादृशे अतएव विमुखे प्रतीकारपराङ्मुखे सति, राजनि—नृपे, मौर्ये—वृषले, नवे—नूतने सति, मयि—राक्षसे, स्वाधीने—स्वतन्त्रे सति, मार्गमात्रकथनव्यापारयोगोद्यमे—मार्गमात्रस्य युद्धपथस्य एव कथन उपदेशे यो व्यापारयोग प्रयत्नघटना स एव उद्यमः व्यवसायो यस्य तादृशे, न—अस्माकं, साध्यानि—कार्याणि, त्वदाज्ञाच्छान्तरितानि—तव या आज्ञा इच्छा तया अन्तरितानि व्यवहितानि, तिष्ठन्ति—वर्तन्ते ॥ १५ ॥

हिन्दी अनुवादमलयकेतु—[मन में] भाग्य से मैं मन्त्री के अधीन

चतुर्थोऽङ्कः २६५

राष्ट्र वाला नहीं हूँ । [ प्रकट ] यद्यपि ऐसा है तो भी आक्रमण के अनेक कारणों के रहते मंत्री के संकट का पता लगाकर शत्रु पर चढ़ाई करने वाले ( राजा ) को निश्चित सिद्धि नहीं मिलती है ।

राक्षस—कुमार निश्चित सिद्धि ही समझे । क्योंकि—

हे प्रभो ! इस समय उत्तम सेनाओं से युक्त राजा आपके आक्रमणकारी होने पर, कुसुमपुर के नन्द के प्रति अनुरक्त होने पर, चाणक्य के मंत्रिपद से च्युत होने के कारण विरक्त होने पर, चन्द्रगुप्त के नये राजा होने पर, मेरे स्वाधीन होने पर—' [ ऐसा आधा कहने पर लज्जा का अभिनय करता हुआ ] और केवल मार्ग-निर्देश के प्रयत्न के व्यवसायी होने पर हमारे कार्य आपकी इच्छा से व्यवहित हैं ( अर्थात् केवल आपकी आज्ञा की प्रतीक्षा कर रहे हैं ।) ॥ १५ ॥

टिप्पणीसचिवायत्ततन्त्रः—सचिवे आयत्तम् मुप्सुपा स० । तादृश तन्त्रम् अस्य बहुव्रीहि स० । अभियुञ्जानस्य—अनुसन्धानस्य अन्विष्येत्यर्थः । अभियोक्तुः—अभिषेणायतः इत्यर्थः । ऐकान्तिकी—एकः अन्तः स्वरूपम् एकान्तः । तत्र भवा इति एकान्त + ठञ् अध्यात्मादित्वात् । स्वाधीने—अधिगतः इनः प्रभुः अनेन इति अधीनः । स्वस्य अधीनः स्वाधीनः । व्यापारयोगः—वि-आ-√पृ + घञ् भावे = व्यापारः । तस्य योगः । अन्तरितानि—अन्तरं सञ्जातमेषाम् इति अन्तर + इतच् = अन्तरितानि । साध्यानि—√सिध् + णिच् + यत् कर्मणि वा √साध् + ण्यत् कर्मणि । इस पद्य मे समुच्चय अलंकार है, प्रसाद गुण है, पाञ्चाली रीति है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ १५ ॥

मलयकेतुः—अमात्य ! यद्येवमभियोगकालममात्यः पश्यति, तत्किमास्यते ? पश्य—

उत्तुङ्गास्तुङ्गकूलं स्रुतमदसलिलाः प्रस्यन्दिसलिलं श्यामाः श्यामोपकण्ठद्रुममलिमुखराः कल्लोलमुखरम् । स्रोतः खातावसीदत्तटमुरुदशनैरुत्सा दिततटाः शोणं सिन्दूरशोणा मम गजपतयः पास्यन्ति शतशः ॥ १६ ॥

अन्वयः—मम उत्तुङ्गाः स्रुतमदसलिलाः अलिमुखराः उरुदशनैरुत्सा दित-

२६८ मुद्राराक्षसम्

तटाः श्यामाः सिन्दूरशोणा शतशः गजपतय तुङ्गकूल प्रस्यन्दिसलिलं कल्लोल- मुखर स्रोत खातावसीदत्तट श्यामोपकण्ठद्रुम शोणं पास्यन्ति ॥ १६ ॥

व्याख्या—मम—मे, उत्तुङ्गा—अत्युनताः, स्रुतमदसलिलाः—स्रुत क्षरित मदसलिल दानवारि येषां तादृशाः, अलिमुखराः—अलिभिः भ्रमरै मुखराः शब्दायमानाः, उरुदशने—उरुभि बृहद्भि दशनैः दन्तैः, उत्सादिततटा उत्सादित विनाशित तट कूलं ये ते, श्यामा—कृष्णवर्णाः, सिन्दूरशोणाः—सिन्दूरे शोणा रक्तवर्णा, शतश—शतेन शतेन, गजपतयः—गजेन्द्राः, तुङ्गकूल—तुङ्गम् उन्नतम् कूलम् तटम् यस्य तादृश, प्रस्यन्दिसलिलम्—प्रस्यन्दि प्रवहत् सलिल जलं यस्य तथाविध, कल्लोलमुखर—कल्लोलै वीचिभि मुखर गर्जन्त, स्रोत खातावसीदत्तट—स्रोतसा प्रवाहेण खातं विशीर्णम् अतएव अवसीदत् पतत् तटं तीरं यम्य तथाविध, श्यामोपकण्ठद्रुम—श्यामा नीला उपकण्ठे प्रान्ते स्थिता द्रुमा वृक्षा यस्य तादृश, शोणम्—एतदाख्यनदविशेषम्, पास्यन्ति—पानेन शोषयिष्यन्ति ॥ १६ ॥

हिन्दी अनुवादमलयकेतु—अमात्य ! यदि आप ऐसा आक्रमण का समय देख रहे हैं तो क्यों बैठा जाय ? देखिए—

मेरे अत्यन्त ऊँचे, टपकते हुए मदजल वाले, भ्रमरों से शब्दायमान, विशाल दाँतों से तटों को उखाड़ने वाले, कृष्णवर्ण और सिन्दूर से लाल सैकड़ों गजराज ऊँचे कगार वाले, बहते हुए जल वाले, तरंगों से शब्दायमान, प्रवाह से टूटकर गिरते हुए तट वाले और किनारे पर स्थित काले वृक्ष वाले शोण नामक नद को पियेंगे ॥ १६ ॥

टिप्पणीआस्यते—इसका 'अस्माभि' लुप्त है। उत्तुङ्गा—उच्छ्रिता तुङ्गेभ्य प्रादितत्०। यह 'गजपतय' का विशेषण है। श्यामोपकण्ठद्रुमम्—उपगत कण्ठम् उपकण्ठ । तत्र द्रुमा सुप्त्सुपा स० । श्यामा उपकण्ठद्रुमा कर्मधारय स० । श्लोक में श्लेषानुप्राणित उपमा अलंकार और यथासंख्य अलंकार हैं, ओज गुण है, गौडी रीति है और सुवदना छन्द है । सुवदना का लक्षण यह है—'ज्ञेया सप्ताश्वषड्भिर्मरभनययुता म्लौगः सुवदना' ॥ १६ ॥

अपि च

२६६ चतुर्थोऽङ्कः

गम्भीरगर्जितरवाः स्वमदाम्बुमिश्र- मासारवर्षमिव शीकरमुद्गिरन्त्यः । विन्ध्यं विकीर्णसलिला इव मेघमाला रोत्स्यन्ति वारणघटा नगरं मदीयाः ॥१७॥

[ इति भागुरायणेन सह निष्क्रान्तो मलयकेतुः ]

अन्वयः—गम्भीरगर्जितरवाः स्वमदाम्बुमिश्रं शीकरम् आसारवर्षमिव उद्गिरन्त्यः मदीया वारणघटाः विकीर्णसलिला मेघमाला विन्ध्यमिव नगरं रोत्स्यन्ति ॥१७॥

व्याख्यागम्भीरगर्जितरवाः—गम्भीरं च सान्द्रं च तत् गर्जितं च गर्जनं च तदेव रवः ध्वनिः यासां ताः, स्वमदाम्बुमिश्रं—स्वैः स्वकीयैः मदाम्बुभिः दानजलैः मिश्रं मिश्रितं, शीकरम्—अम्बुकणम्, आसारवर्षमिव—धारासम्पात-वर्षामिव, उद्गिरन्त्यः—उद्वमन्त्यः, मदीयाः—मम इमाः, वारणघटाः—गजपङ्क्तयः, विकीर्णसलिलाः—विकीर्णं विक्षिप्तं सलिलं जलं याभिः तादृश्यः, मेघमालाः—कादम्बिन्यः, विन्ध्यमिव—तदाख्यपर्वतमिव, नगरं—पुष्पपुरं, रोत्स्यन्ति—आवरिष्यन्ति ॥१७॥

हिन्दी अनुवाद—और भी—गंभीर गर्जन करने वाली, और अपने मदजल से मिश्रित जलकणों को मूसलाधार वर्षा की तरह वमन करती हुई मेरी गज-पंक्तियां पाटलिपुत्र को उसी तरह घेर लेगी जैसे जल बरसाती हुई मेघमालाये विन्ध्यपर्वत को ( घेर लेती है ) ॥१७॥

[ भागुरायण के साथ मलयकेतु बाहर चला जाता है । ]

टिप्पणीअपि च—यह पूर्व श्लोक की 'पास्यन्ति' क्रिया और इस श्लोक की 'रोत्स्यन्ति' क्रिया को जोड़ती है । उद्गिरन्त्यः—उद् √गॄ + लट् + शतृ स्त्रियाम् । विकीर्ण—वि √कॄ + क्त । रोत्स्यन्ति—√रुध् + लृट्—स्यन्ति । इस श्लोक में पूर्णोपमा अलंकार है, ओज गुण है, पाञ्चाली रीति है और वसन्त-तिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥१७॥

राक्षसः—कः कोऽत्र भोः ?

पुरुषः—[ प्रविश्य ] आणवेदु अमच्चो । ( आज्ञापयत्वमात्यः । )

२७० | मुद्राराक्षसम्

राक्षस — प्रियवदक ! ज्ञायतां सावत्सरिकाणां द्वारि कस्तिष्ठति ।

प्रियवदक — जं अमच्चो आणवेदि । [ इति निष्क्रम्य क्षपणकं दृष्ट्वा पुन प्रविश्य च ] अमच्च ! एसो क्खु सवत्सरिओ क्खवणओ । ( यदमात्य आज्ञापयति । अमात्य ! एष खलु सावत्सरिकः क्षपणकः ) ।

राक्षस — [ स्वगतमनिमित्तं सूचयित्वा ] कथं प्रथममेव क्षपणकदर्शनम् ?

प्रियवदक — जीवसिद्धी । ( जीवसिद्धिः ) ।

राक्षस — [ प्रकाशम् ] अवीभत्सदर्शनं कृत्वा प्रवेशय ।

प्रियवदक — जं अमच्चो आणवेदि । ( यदमात्य आज्ञापयति । )

[ इति निष्क्रान्तः । ]

[ ततः प्रविशति क्षपणकः । ]

क्षपणक

सामणमलिहन्ताणं प्पडिवज्जह मोहवाहिबेज्जाणं ।
जे पढममेत्तकडुअं पच्छा पत्थं उवदिसन्ति ॥१८॥
(शासनमर्हतां प्रतिपद्यध्वं मोहव्याधिवैद्यानाम् ।
ये प्रथममात्रकटुकं पश्चात् पथ्यमुपदिशन्ति ॥१८॥)

अन्वय — मोहव्याधिवैद्यानाम् अर्हतां शासनं प्रतिपद्यध्वम् ये प्रथममात्रकटुकं पश्चात् पथ्यम् उपदिशन्ति ॥१८॥

व्याख्या — मोहव्याधिवैद्यानाम्—मोहः अज्ञानम् एव व्याधिः रोगः तस्य ये वैद्याः, चिकित्सकाः तेषाम्, अर्हतां—जैनसन्यासिनाम्, शासनम्—उपदेशं, प्रतिपद्यध्वम्—प्रतिपालयत, ये—अर्हन्तः, प्रथममात्रकटुक—प्रथममात्रं प्रागेव कटुकं तिक्तं विरसमित्यर्थः, पश्चात्—परिणामे, पथ्यम्—हितम्, उपदिशन्ति—शिक्षयन्ति ॥१८॥

हिन्दी अनुवादराक्षस — यहाँ कोई है जी !

प्रियं० — [ प्रवेश करके ] अमात्य आज्ञा करें ।

राक्षस — प्रियवदक ! पता करो कि ज्योतिषियों में से दरवाजे पर कौन है ।

चतुर्थोऽङ्कः ३७१

प्रियंवदक—अमात्य की जो आज्ञा । [ बाहर जाकर क्षपणक को देखकर पुनः प्रवेश करके ] अमात्य ! ये ज्योतिषी क्षपणक हैं ।

राक्षस—[ मन में अशकुन को सूचित करके ] कैसे पहले ही क्षपणक का दर्शन हुआ ?

प्रियंवदक—जीवसिद्धि ।

राक्षस—[ प्रकट ] निन्दित वेष से रहित करके भीतर ले आओ ।

प्रियंवदक—अमात्य की जो आज्ञा ।

[ बाहर चला जाता है । ]

[ तब क्षपणक प्रवेश करता है । ]

क्षपणक

मोह रूपी रोग के चिकित्सक जैन संन्यासियों के उपदेश को ग्रहण करो, जो मात्र पहले कटु और पश्चात् हितकारी उपदेश करते हैं ॥ १८ ॥

टिप्पणीसांवत्सरिकाणाम्—दैवज्ञानाम् । (टिप्पणी २, १५ के बाद के गद्य में देखिए ।) क्षपणकः—बौद्ध संन्यासी या जैन संन्यासी । अनिमित्तम्—न निमित्तम् विरोधार्थे नञ्तत् ० । अर्हताम्—जैन या बौद्ध संन्यासियो का । अर्ह् + शतृ कर्तरि = अर्हन्तः, तेषाम् । प्रथममात्रकटुकम्—प्रथमम् एव इति प्रथममात्रम्, प्रथममात्रं कटुकम् इति प्रथममात्रकटुकम् । इस पद्य में अप्रस्तुतप्रशंसा अलंकार रूपक अलंकार से संकीर्ण है । इसमें आर्या छंद है । आर्या छन्द का लक्षण १, ८ में देखिए ॥१८॥

[ उपसृत्य ] धम्मलाहो साबका ! भोदु । ( धर्मलाभ उपासक ! भवतु । )

राक्षसः—भेदन्त ! निरूप्यतां तावदस्मत्प्रस्थानयोग्यदिवसः ।

क्षपणकः—[ नाट्येन चिन्तयित्वा ] साबका ! णिलूविदे मुहुत्ते । आ मज्झणादो णिव्वुत्तसत्तसकला सोहणा तिही संपुणचन्दा पुण्णमासी तुह्माणं उत्तलाए दिसाए दक्खिणं दिसं पत्थिदाणं दक्खिणदुवारिओ णक्खत्तओ । (उपासक ! निरूपितो मुहूर्तः । आ मध्याह्नात् निवृत्त-सप्तशकला शोभना तिथिः सम्पूर्णचन्द्रा पौर्णमासी, युष्माकमुत्तरस्या दिशो दक्षिणां दिशं प्रस्थितानां दक्षिणद्वारिकं नक्षत्रम् ।)

२७२ मुद्राराक्षसम्

अवि अ—( अपि च — )

अत्याहिमुहे सूले, उदिदे सउण्णमण्डले चन्दे । गमणं बुहस्स लग्गे, उदिदत्यमिदे अ केदुम्मि ॥१९॥ (अस्ताभिमुखे शूरे, उदिते सम्पूर्णमण्डले चन्द्रे । गमनं बुधस्य लग्ने, उदितास्तमिते च केतौ ॥१९॥)

अन्वय —शूरे अस्ताभिमुखे सम्पूर्णमण्डले चन्द्रे उदिते केतौ च उदितास्तमिते बुधस्य लग्ने गमनम् ॥१९॥

व्याख्याशूरे—सूर्ये, अस्ताभिमुखे—अस्ताचलं गच्छति, सम्पूर्णमण्डले—परिपूर्णबिम्बे, चन्द्रे—चन्द्रमसि, उदिते—आविर्भूते, केतौ च—राहुपुच्छे अपि, उदितास्तमिते—उदितात् लग्नात् अस्तमिते सप्तमस्थानवर्तिनि सति अर्थात् आविर्भूयैव तिरोभूते सति, बुधस्य लग्ने—बुधस्वामिके राशौ कन्यालग्न इत्यर्थः, गमनं—यात्रा प्रशस्तमिति शेषः। पक्षान्तरेशूरे—बलवति राक्षसे इत्यर्थः, अस्ताभिमुखे—विनाशोन्मुखे, सम्पूर्णमण्डले—राजमण्डलाधिरूढे सुप्रतिष्ठिते इत्यर्थे, चन्द्रे—चन्द्रगुप्ते, उदिते—उत्थित सति, केतौ च—मलयकेतौ अपि, उदितास्तमिते—उत्थाय एव पतिते, बुधस्य—चाणक्यस्य, लग्ने—सम्बन्धे, गमनम् प्रशस्तमिति शेषः ॥१९॥

हिन्दी अनुवाद—[ समीप जाकर ] उपासक ! धर्म का लाभ हो !

राक्षस—भदन्त ! हमारे प्रयाण योग्य दिन बताइए ।

क्षपणक—[ अभिनय के साथ सोचकर ] उपासक ! मुहूर्त तो ठीक बैठ गया । मध्याह्न काल से लेकर सम्पूर्ण चन्द्रवाली पूर्णिमा तिथि विष्टिभद्रा से रहित सुन्दर तिथि है, और उत्तर की ओर से दक्षिण प्रस्थान करते हुए आपका नक्षत्र ( भी ) दक्षिणवर्ती है ( जो और भी सुन्दर है ) ।

और भी—सूर्य के अस्ताचल पर जाने पर, सम्पूर्ण मण्डल वाले चन्द्रमा के उदित होने पर और केतु के उदित होकर अस्त हो जाने पर, बुध के लग्न में प्रस्थान करना उत्तम है। पक्षान्तर में—बलवान् ( राक्षस ) के विनाशोन्मुख होने पर, सम्पूर्ण राष्ट्र वाले चन्द्रगुप्त के उत्थान होने पर और मलयकेतु के

चतुर्थोऽङ्कः २७३

उत्थान के साथ ही पतन होने पर चाणक्य के सम्पर्क में जाना उचित है ॥१९॥

टिप्पणी—भदन्त !—मान्य ! बौद्ध संन्यासी के लिए यह सम्बोधन है । √ भन्द् ( कल्याणे ) + झच् कर्तरि औणादिक, भस्य अन्तादेशः । अथवा भदन्त ज्योतिषी को कहते हैं । भानि नक्षत्राणि दन्ताः अस्य इति भदन्तः । निरूप्यताम्—निश्चीयताम् । सावका !—इसका संस्कृत पाठभेद 'श्रावकाः' भी है । शृण्वन्ति इति श्रावकाः = श्रोतारः √ श्रु + ण्वुल् कर्तरि । आ मध्याह्नात्—दिनमध्यात् आरभ्य । निवृत्तसप्तशकला—निवृत्तं व्यतीतं सप्तशकलं विष्टिभद्रात्मकः सप्तमतिथ्यंशः यस्याः सा निवृत्तसप्तशकला । तिथि के आधे भाग को करण कहते हैं । करणों की संख्या ११ है । जिनमें से सात चर संज्ञा वाले करण ये हैं—'वव, वालव, कौलव, तैतिल, गर, वणिज् और विष्टिभद्रा' । यहाँ 'निवृत्तसर्वकल्याणा' यह पाठभेद भी मिलता है । इसका अर्थ है—सब प्रकार के कल्याणों से शून्य । इस पाठभेद में वाक्य की संगति बैठाने के लिए खीचातानी करनी पड़ेगी । पौर्णमासी—पूर्णो मासः पूर्णमासः । तस्य इयम् इति पौर्णमासी पूर्णमास + अण्—ङीप् । उत्तरस्याः—अत्र अपादाने पञ्चमी । दक्षिणद्वारिकम्—याम्यदिग्वर्ति । यहाँ कवि का तात्पर्य मृगशिरा नक्षत्र से है । यात्रा में इतने नक्षत्र उत्तम माने गए हैं—'अश्विनी रेवती ज्येष्ठा पुष्यो हस्तः पुनर्वसुः । मैत्रो मृगशिरो मूलं यात्रायां चोत्तमाः स्मृताः ॥' उदितास्तमिते केतौ—राहु और केतु का एक ही शरीर है, जो सर्पाकार है । सिर भाग को राहु कहा जाता है और पुच्छ भाग को केतु । सिर के उदित होने पर पुच्छ अस्त हो जाता है और पुच्छ के उदित होने पर सिर अस्त हो जाता है । इसीलिए 'उदितास्तमिते' कहा है । इस पद्य में श्लेषालंकार है और आर्या छन्द है ॥१९॥

राक्षसः—भदन्त ! तिथिरेव तावन्न शुध्यति ।

क्षपणकः—सावका ! ( उपासक ! )–

एक्कगुणा होइ तिही चउग्गुणे होइ णक्खत्ते ।
चउसत्तिगुणे लग्गे एसे जोइसतन्तसिद्धं ते ॥२०॥
( एकगुणा भवति तिथिश्चतुर्गुणं भवति नक्षत्रम् ।
चतुः षष्टिगुणं लग्नमेतद्दृश्यते ज्योतिषतन्त्रसिद्धान्ते ॥२०॥ )

मु० रा०—१८

२७४ मुद्राराक्षसम्

अन्वय —ज्योतिषतन्त्रसिद्धान्ते एतत् दृश्यते ( यत् ) तिथि एकगुणा भवति नक्षत्र चतुर्गुण भवति, लग्न चतु षष्टिगुण ( भवति ) ॥२०॥

व्याख्या—ज्योतिषतन्त्रसिद्धान्ते—ज्योति शास्त्रस्य राद्धान्ते, एतत्—इदम्, दृश्यते—अवलोक्यते ( यत् ) तिथि, एकगुणा—एको गुणो यस्याः तादृशी ( फलदायिनी ) भवति—जायते, ( तिथ्यपेक्षया ) नक्षत्र—तारा, चतुर्गुण —चत्वारो गुणा यस्य तादृश, भवति, ( नक्षत्रापेक्षया ) लग्न—राशीनामुदय, चतु षष्टिगुण—चतु षष्टिर्गुणा यस्य तादृश ( फलदायि भवति ) ॥२०॥

हिन्दी अनुवाद—ज्योतिष शास्त्र के सिद्धान्त मे ऐसा देखा जाता है कि तिथि एक गुना ( फल देने वाली ) होती है, नक्षत्र चौगुना होता है और लग्न चौंसठ-गुना ( होता है ) ॥२०॥

ता । लग्गे होइ सुलग्गे कूलग्गह पलिहलिज्जासु ।
पाविहि दीह लाह चन्दस्स वलेण गच्छन्ते ॥२१॥
( तस्मात् । लग्न भवति सुलग्न क्रूरग्रह परिहर आशु ।
प्राप्नुहि दीर्घं लाभ चन्द्रस्य बलेन गच्छन् ॥२१॥ )

अन्वय —लग्न सुलग्न भवति, आशु क्रूरग्रहम् परिहर, चन्द्रस्य बलेन गच्छन् दीर्घं लाभ प्राप्नुहि ॥२१॥

व्याख्या—लग्न—राश्युदय, सुलग्न भवति—शुभफलप्रद भवति, आशु—शीघ्र, क्रूरग्रह—मन्दग्रहसम्बन्ध, पारहर—परित्यज, चन्द्रस्य—निशाकरस्य, बलेन—सम्बन्धेन, गच्छन्—व्रजन्, ( त्व ) दीर्घं—चिरकालस्थायिन, लाभ—सिद्धि,—प्राप्नुहि—लभस्व। पक्षान्तरे—क्रूर !—राक्षस !, ग्रहम्—आग्रह चाणक्यपराजयविषयकप्रयत्नमित्यर्थ, परिहर—परित्यज, चन्द्रस्य—चन्द्रगुप्तस्य बलेन—सैन्येन भद्रभटादिना ( सह ), गच्छन्—व्रजन्, ( त्व ) दीर्घं—चिरकालव्यापिन, लाभ—चन्द्रगुप्तामात्यत्वरूप, प्राप्नुहि— लभस्व । ( तथा सति ) लग्न ( दुष्टमपि ते ) सुलग्न—शुभफलदायकमित्यर्थ, भवति—भविष्यतीत्यर्थ ॥२१॥

हिन्दी अनुवाद—इसलिए । ( हीन ) लग्न ( भी ) सुलग्न हो जाता है, क्रूर ग्रह को छोड दो ( अर्थात् क्रूर ग्रह के सम्बन्ध न रहने पर हीन लग्न भी

चतुर्थोऽङ्कः । २७५

शुभफलदायक हो जाता है) । चन्द्रमा के बल से जाते हुए (तुम) चिरस्थायी सिद्धि प्राप्त करो । पक्षान्तर मे—हे राक्षस ! हठ छोड़ दो । चन्द्रगुप्त की सेना के साथ जाते हुए (तुम) चिरकालवर्ती लाभ प्राप्त करो । (ऐसा करने से तुम्हारा इष्ट) लग्न (भी) शुभफलदायक हो जाएगा ॥२१॥

राक्षसः—भदन्त ! अपरैः सांवत्सरिकैः सार्ध संवादयताम् ।

क्षपणकः—संबादेदु साबके । अहं णिअं गेहं गमिस्सं । [संवादयतु उपासकः । अह निजं गेहं गमिष्यामि ।]

राक्षसः—न खलु कुपितो भदन्तः ?

क्षपणकः—ण कुबिदे तुम्हाणं भदन्ते । (न कुपितो युष्माकं भदन्तः ।)

राक्षसः—कस्तर्हि ?

क्षपणकः—भअवं कअन्तो । जेण अत्तणो पक्खं उज्झि परपक्खं प्पमाणीकरेसि । (भगवान् कृतान्तः । येन आत्मनः पक्षमुज्झित्वा परपक्षम् प्रमाणोकरोषि ।)

[इति निष्क्रान्तः क्षपणकः ।]

राक्षसः—प्रियंवदक ! ज्ञायतां का वेला वर्तत इति ।

प्रियंवदकः—जं अमच्चो आणवेदि । (यदमात्य आज्ञापयति ।) [इति निष्क्रम्य पुनः प्रविश्य च] अत्थाहिलासी भअवं सुले । (अस्ताभिलाषी भगवान् सूर्यः ।) । (पक्षान्तरीयसंस्कृतं यथा—'अर्थाभिलाषी भगवान् शूरः' ) ।

राक्षसः—[आसनादुत्थाय विलोक्य च] अये ! अस्ताभिलाषी भगवान् सहस्रदीधितिः । सम्प्रति हि—

आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः
पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
एते तस्मिन्निवृत्ताः पुनरपरककुप्पान्तपर्यस्तबिम्बे
प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥२२॥

[इति निष्क्रान्ताः सर्वे]

॥ इति चतुर्थोऽङ्कः ॥

पञ्चमोऽङ्कः (कपटलेख व भेद)

२७६मुद्राराक्षसम्

अन्वय —क्षणम् आविर्भूतानुरागा एते उपवनतरव उदयगिरे उज्जिहानस्य भानो पुरस्तात् पत्रच्छायं आशु एव दूर गत्वा पुन अपरककुप्प्रान्तपर्यन्त-बिम्ब तस्मिन् निवृत्ता, प्राय सेवमाना भृत्या प्रचलितविभव स्वामिन त्यजंति ॥२२॥

व्याख्या—क्षणम्—क्षणकालम्, आविर्भूतानुरागा —आविर्भूत प्रकटितः अनुरागः प्रीति येषा तादृशा, एते—इमे, उपवनतरव —आरामवृक्षा, उदयगिरे —पूर्वपर्वतात्, उज्जिहानस्य—उद्गच्छन, भानो —सूर्यस्य, पुरस्तात् —पुर, पत्रच्छाय —पत्राच्छायारूपेण, आशु एव—शीघ्रमेव, दूर गत्वा—विप्रकृष्टस्थान प्राप्य, पुन —भूय, अपरककुप्प्रान्तपर्यस्तबिम्बे—अपरस्या इतरराया पश्चिमाया इति यावत् ककुभ दिश प्रान्ते सीमनि पर्यन्तम् अवलम्बित बिम्ब मण्डल यस्य तादृशे, तस्मिन्—भानौ, निवृत्ता —परावृत्ता, प्राय —बाहुल्येन, सेवमाना —उपचरन्त, भृत्या —सेवका प्रचलितविभव—प्रचलितः विच्युत विभव प्रभुत्व यस्य तादृश, स्वामिन—प्रभु, त्यजंति—जहति ॥२२॥

हिन्दी अनुवादराक्षस—भदन्त ! दूसरे ज्योतिषियों के साथ परामर्श र लीजिए ।

क्षपणक—उपासक ( अर्थात् आप ) परामर्श करे । मैं अपने घर जाऊँगा ।

राक्षस—भदन्त क्रुद्ध तो नही हो गए ?

क्षपणक—आपका भदन्त क्रुद्ध नही हुआ है ।

राक्षस—तब कौन ( क्रुद्ध हुआ है ) ?

क्षपणक—भगवान् काल । जिससे आप अपने पक्ष को ( अर्थात् मुझे ) छोड़कर दूसरे पक्ष को ( अर्थात् दूसरे ज्योतिषियों को ) प्रमाणित कर रहे हैं ।

[ क्षपणक चला जाता है । ]

राक्षस—प्रियवदक ! देखो तो क्या समय है ।

प्रियवदक—जो अमात्य की आज्ञा । [ बाहर जाकर और पुनः प्रवेश करके ] भगवान् सूर्य अस्त होने के इच्छुक हैं । ( पक्षान्तर में श्रीमान् राक्षस अर्थ ( मौर्य के अमात्यपद ) के अभिलाषी हैं । )

चतुर्थोऽङ्कः २७७

राक्षस— [ आसन से उठकर और देखकर ] अरे ! भगवान् सूर्य तो अस्त होने के इच्छुक हैं। इस समय—

क्षण भर के लिए उत्पन्न प्रीति वाले ये उद्यान के वृक्ष उदयाचल से उदित होते हुए सूर्य के आगे पत्रों की छाया रूप से शीघ्र ही दूर तक जाकर फिर पश्चिम दिशा की सीमा पर टिके हुए मंडल वाले उस ( सूर्य ) के होने पर लौट आये हैं; ( क्योंकि ) प्रायः सेवा करते हुए भृत्यगण क्षीण ऐश्वर्य वाले स्वामी को त्याग देते हैं ॥२२॥

[ सभी ( पात्र ) चले जाते है । ]

॥ चौथा अंक समाप्त ॥

**टिप्पणी—**संवाद्यताम्—विचार या परामर्श कर लीजिए । सम्√वद्+णिच्+लोट्—ताम् भावे । कृतान्त—यम या सिद्धान्त 'कृतान्तौ यमसिद्धान्तौ' इत्यमरः । येन आत्मनः पक्षम् ………इसका गूढार्थ यह है कि जिस लिए तुम अपने पक्ष—नन्दवंशोत्पन्न मौर्य को छोड़कर परपक्ष—मलयकेतु को आत्मीय समझ रहे हो, इसलिए भगवान् यम कुपित है । अस्ताभिलाषी—अस्तम् अभिलषितुं शीलमस्य इति अस्त-अभि√लष्+णिनि कर्तरि ताच्छील्ये । उज्जहानस्य—उद्√हा ( गतौ )+शानच् कर्तरि । पत्रच्छायैः—पत्राणां छाया पत्रच्छायम् 'विभाषा सेनासुराच्छायाशालानिशाम्' इत्यनेन नपुंसकत्वम् । पत्रच्छायञ्च पत्रच्छायञ्च पत्रच्छायञ्च इति पत्रच्छायानि एकशेष, तैः । इस श्लोक में प्रतीयमाना उत्प्रेक्षा अलंकार से उत्थापित अर्थान्तरन्यास अलंकार है और स्रग्धरा छंद है । स्रग्धरा का लक्षण १, १ मे देखिए ॥२२॥


पञ्चमोऽङ्कः

[ ततः प्रविशति लेखमलङ्करणस्थगिकाञ्च मुद्रितामादाय सिद्धार्थकः ]

**सिद्धार्थकः—**हो हीमाणहे ! हीमाणहे !! ( आश्चर्यम् ! आश्चर्यम् !!

बुद्धिजलणिज्झरेहिं सिञ्चन्ती देशकालकलसेहिं ।
दंसइस्सदि कज्जफलं गुरुअं चाणक्कणीदिलदा ॥१॥

२७८ | मुद्राराक्षसम्

( बुद्धिजलनिर्झरैः सिच्यमाना देशकालकलशैः । दर्शयिष्यति कार्यफलं गुरुकं चाणक्यनीतिलता ॥१॥ )

अन्वय — देशकालकलशैः बुद्धिजलनिर्झरैः सिच्यमाना चाणक्यनीतिलता गुरुकं कार्यफलं दर्शयिष्यति ॥१॥

व्याख्या — देशकालकलशैः — देशश्च स्थानं च कालश्च समयश्च तौ एव कलशौ कुम्भौ येषां तानि, बुद्धिजलनिर्झरैः — बुद्धयः धिय एव भानि तेषां निर्झरैः प्रवाहैः, सिच्यमाना — आर्द्रीक्रियमाणा, चाणक्यनीतिलता — चाणक्यस्य कौटिल्यस्य या नीतिः नयः तद्रूपा लता वल्ली, गुरुकम् — अधिकम्, कार्यफलम् — कार्यस्य प्रारब्धस्य राक्षसग्रहणरूपस्य कर्मणः फलं परिणामं, दर्शयिष्यति — प्रकटयिष्यति ॥१॥

हिन्दी अनुवाद — [ तदनन्तर लेख और ( राक्षस की मुद्रा से ) मुद्रित आभूषणों की पेटी को लेकर सिद्धार्थक प्रवेश करता है । ]

सिद्धार्थक — आश्चर्य ! आश्चर्य !!

देश और काल रूपी घड़ों वाले बुद्धि रूपी जलों के प्रवाहों से सींची जाती हुई चाणक्य की नीति रूपी लता अधिक कार्य रूपी फल को दिखलाएगी ॥१॥

टिप्पणी — इस अंक से निर्वहणसन्धि प्रारम्भ होती है । निर्वहण का लक्षण यह है — 'बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥' अलङ्करणस्थगिकाम् — आभूषणों की पेटी को । स्थगयति इति √स्थग् + णिच् + अच् कर्तरि = स्थग । मन्त्रेव स्थगकः स्थग् + कन् । स्त्रियां स्थगिका । अलङ्करणानां स्थगिका षष्ठीतत्०, ताम् । बुद्धिजलनिर्झरैः — निर् √सृ + अप् भावे निर्झराः । बुद्धेर्जलस्य निर्झराः, तैः । बुद्धिजलस्य निर्झरा निर्झरीणानि बुद्धिजलानि, भावानयने द्रव्यानयनम् । इस पद्य में उपमा और साङ्गरूपक अलङ्कारों का सन्देहमङ्कर है और आर्या छन्द है । आर्या का लक्षण १, ५ में देखिए ॥१॥

गहीदो मए अज्जचाणक्केण पढमलेहिदो लेहो, अमच्चरक्खसस्स मुद्दालञ्छिदो । तस्स ज्जेव्व मुद्दालञ्छिदा इअं आहरणपेडिआ । चलिदेहिं किल पाडलिउत्तं, ता जाव गच्छिह्नि । [ परिक्रम्यावलोक्य च ] कहं

पञ्चमोऽङ्कः २७६

क्खवणओ आअच्छदि ? जाब मे असउगभूदं इमस्स दंसणं, ता आदित्तदंसणेण पडिहणामि । ( गृहीतो मयाऽऽर्यचाणक्येन प्रथमलेखितो लेखः, अमात्यराक्षसस्य मुद्रालाञ्छितः । तस्यैव मुद्रालाञ्छितेयमाभरण-पेटिका । चलितोऽस्मि किल पाटलिपुत्रं, तद्यावत् गच्छामि । कथं क्षपणक आगच्छति ? यावन्मेऽशकुनभूतंमस्य दर्शनं, तस्मादादित्यदर्शनेन प्रतिहन्मि । )

[ ततः प्रविशति क्षपणकः । ]

क्षपणकः

अलिहन्ताणं प्पणमामो जे दे गंभीलदाए बुद्धीए ।
लोउत्तलेहिं लोए सिद्धि मग्गेहिं मग्गन्ति ॥२॥

( अर्हतां प्रणमामो ये ते गम्भीरतया बुद्धेः ।
लोकोत्तरैर्लोके सिद्धिं मार्गैर्मार्गयन्ति ॥२॥ )

अन्वयः—अर्हतां प्रणमामः, ये ते बुद्धेः गम्भीरतया लोके लोकोत्तरैः मार्गैः सिद्धिं मार्गयन्ति ॥२॥

व्याख्याअर्हतां—बौद्धसंन्यासिनां, प्रणमामः—नमस्कुर्मः, ये ते—अर्हन्तः, बुद्धेः—मत्यादिपञ्चात्मकज्ञानस्य, गम्भीरतया—धीरतया, लोके—संसारे, लोकोत्तरैः—अलौकिकैः, मार्गैः—वर्त्मभिः, सिद्धिं—मोक्षं, मार्गयन्ति—अन्वेषयन्ति ॥२॥

हिन्दी अनुवाद—मैंने आर्य चाणक्य द्वारा पहले ही लिखवाया गया (वह कूट-) लेख ले लिया है, जिस पर अमात्य राक्षस की मुद्रा की छाप पड चुकी है। उसी की मुद्रा से चिह्नित यह आभूषणों की पेटी है। मैं झूठमूठ में पाटलिपुत्र के लिए चला हूँ। तो जाता हूँ। [ घूमकर और देखकर ] कैसे क्षपणक आ रहा है ? इसका दर्शन तो मेरे लिए असगुन हो गया। इसलिए सूर्य के दर्शन से (इस दोष का) निराकरण करता हूँ।

[ तब क्षपणक प्रवेश करता है । ]

हम बौद्ध संन्यासियों को प्रणाम करते हैं जो वे बुद्धि की गंभीरता के कारण संसार में दिव्य मार्गों से सिद्धि प्राप्त करते हैं ॥२॥

टिप्पणीप्रथमलेखितः—प्रथम अंक में आ चुका है कि चाणक्य ने

२८० मुद्राराक्षसम्

सिद्धार्थक के द्वारा शकटदास से एक लेख लिखवाया था। वही यह लेख है। तस्यैव मुद्रालान्छितेयम्—दूसरे अंक में राक्षस ने सिद्धार्थक को पारितोषिक के रूप में कुछ आभूषण दिये थे, जो मलयकेतु ने राक्षस को पहनने के लिए कञ्चुकी के हाथ भिजवाए थे। उन आभूषणों को सिद्धार्थक ने राक्षस की मुद्रा से मुद्रित करके उसी के पास रख छोड़ा था। उन्हीं आभूषणों की यह पेटी है। अर्हताम्—√अर्ह् + शतृ = अर्हन्त तेषाम्। कर्मणः शेषत्वविवक्षायां षष्ठी। लोकोत्तरैः—लोकेभ्य उत्तरा लोकोत्तरा = लोकातिगा प्रशस्ता इत्यर्थः, तैः। इस पद्य में अप्रस्तुतप्रशंसा अलंकार और श्लेष अलंकार का सङ्कर है। इसमें भी आर्या छन्द है ॥२॥

सिद्धार्थक—भदन्त ! प्पणमामि। ( भदन्त ! प्रणमामि। )

क्षपणक—सावका ! धम्मलाहो दे होदु। [ सिद्धार्थकं निर्वर्ण्य ] सावका ! पत्थाणसमुव्वहणे किदव्ववसाअं विअ दे हिअअं पेक्खामि। ( उपासक ! धर्मलाभस्ते भवतु। उपासक ! प्रस्थानसमुद्वहने कृतव्यवसायमिव ते हृदय पश्यामि। )

सिद्धार्थक—कहं भदन्तो जाणादि ? [ कथं भवन्तो जानाति ? ]

क्षपणक—सावका ! किं एत्थ जाणिदव्वं ? एसो दे मग्गादेसकुसलो सउणो करगदो लेहो अ सूचेदि। ( उपासक ! किमत्र ज्ञातव्यम् ? एष ते मार्गादेशकुशल शकुन करगतो लेखश्च सूचयति। )

सिद्धार्थक—जाणिदं भदन्तेण देसन्तरं चलिदोम्हि। ता कहेदु भदन्तो कीदिसो अज्ज दिअसो ? ( ज्ञातं भदन्तेन देशान्तर चलितोऽस्मि। तत् कथयतु भदन्त कीदृशोऽद्य दिवस ? )

क्षपणक—[ विहस्य ] सावका ! मुण्डिअमुण्डो तुम णक्खत्ताइ पुच्छसि ? ( उपासक ! मुण्डितमुण्डस्त्वं नक्षत्राणि पृच्छसि ? )

सिद्धार्थक—भदन्त ! सम्पदं पि किं जादं ? ता कहेहि, जइ अत्तणो अणुऊल भविस्सदि, ता गमिस्सं, अण्णधा णिवत्तिस्स ( भदन्त ! साम्प्रतमपि किं जातम् ! तत् कथय, यद्यात्मनोऽनुकूलं भवेत्, तदा गमिष्यामि, अन्यथा निर्वर्तिष्ये । )

पञ्चमोऽङ्कः २८१

क्षपणकः—साबकाणं सम्पदं एदस्सिं मलयकेदुकडए अणण्ऊलेण बा किं ? अगहीदमुद्देण ण गच्छीअदि । ( उपासकानां साम्प्रतमेतस्मिन् मलयकेतुकटके अनुकूलेनाऽनुकूलेन वा किम् ? अगृहीतमुद्रेण न गम्यते । )

सिद्धार्थंकः—भदन्त ! कहेहि, कुदो क्खु अअं । ( भदन्त ! कथय, कुतः खल्वयम् ? )

हिन्दी अनुवादसिद्धार्थक—भदन्त ! प्रणाम करता हूँ ।

क्षपणक—उपासक ! तुम्हे धर्म का लाभ हो । [ सिद्धार्थक को अच्छी तरह देखकर ] उपासक ! यात्रा की तैयारी में कृतनिश्चय के समान तुम्हारे हृदय को देख रहा हूँ।

सिद्धार्थक—भदन्त कैसे जानते हैं ?

क्षपणक—उपासक ! इसमें जानना क्या है ? यह तुम्हारे मार्ग की सूचना देने में निपुण शकुन तथा हाथ में लिया लेख बता रहा है ।

सिद्धार्थक—भदन्त ने जान लिया कि मैं परदेश को जा रहा हूँ। इसलिए भदन्त बताएँ कि आज दिन कैसा है ।

क्षपणक—[ हँसकर ]—उपासक ! तुम मूंड़ मुंडाकर नक्षत्रो को पूछ रहे हो ?

सिद्धार्थक—भदन्त ! अभी भी क्या हुआ है ? इसलिए बताइये, यदि ( दिन ) अपना अनुकूल होगा तो जाऊँगा नहीं तो लौट जाऊँगा ।

क्षपणक—उपासको के लिए इस समय इस मलयकेतु के शिविर मे अनुकूल या प्रतिकूल होने से क्या ? बिना मुद्रा के नही जा सकते ।

सिद्धार्थक—भदन्त ! कहिए, यह कैसे ?

टिप्पणीप्रस्थानसमुद्वहने—यात्रासम्पादने विषये इत्यर्थः । प्रस्थानस्य समुद्वहनम्, तस्मिन् । मागर्दिशकुशलः—अध्वसूचननिपुण । मार्गस्य आदेशः । तस्मिन् कुशलः । शकुनः—प्रस्थानसामयिकमुहूर्तविशेष इत्यर्थः । शवनोति सूचयितुम् इति √ शक्+उन कर्तरि औणादिक = शकुनः । मुण्डितमुण्डः..... सिर मुंड़ाकर पूछ रहे हो कि मुंडन का नक्षत्र कैसा है, अरे ! यात्रा करने से

२८२ मुद्राराक्षसम्

पहले ही तुम्हे पूछना चाहिए था कि दिन कैसा है, अब यात्रा कर लेने के बाद दिन की बात क्या पूछते हो ?

क्षपणक — सावका ! णिसामेहि, पढमं दाव एत्य मलयकेदुकडए लोअस्स अणिवारिअणिक्कमणप्पवेमो आसी । दाणी इदो पच्चासण्णे कुसुमउरे, ण कोवि अमुद्दालञ्छिदो णिक्कमिदुं पबिसिदु वा अणुमोदीअदि । ता जइ भाउरायणस्स मुद्दालञ्छिदोसि, तदो गच्छ वोम-श्रो अण्णथा णिवत्तित्र णिउक्कण्ठ चिट्ठ । मा तुमं गुम्मट्ठाणाधिवेहिं मजमिडकडचरणो राजउल पवेसीअसि । ( उपासक ! निशामय, प्रथमं तावदत्र मलयकेतुकटके लोकस्यानिवारितनिष्क्रमणप्रवेशावास्ताम् । इदानीमितः प्रत्यासन्ने कुसुमपुरे, न कोऽप्यमुद्रालान्छितो निष्क्रमितुं प्रवेष्टुं वाऽनुमोद्यते । तद् यदि भागुरायणस्य मुद्रालान्छितोऽसि, तदा गच्छ विरब्धम् , अन्यथा निवृत्य निरुत्कण्ठ तिष्ठ । मा त्वं गुल्मस्थानाधिपैः संयमितकरचरणो राजकुलं प्रवेश्यसे । )

सिद्धार्थक — किं ण आणादि भदन्तो, जया अमच्चरक्वसस्स केलिअरो अन्तिओ सिद्धत्थओ अह त्ति ? ता अमुद्दालञ्छिद्रं वि मं णिक्कमन्त कस्स सत्ती णिबारेदु ? ( किं न जानाति भदन्तः, यथा अमात्यराक्षसस्य केलिकरोऽन्तिकः सिद्धार्थकोऽहमिति ? तद् अमुद्रालान्छनमपि मां निष्क्रामन्तं कस्य शक्तिर्निवारयितुम् ? )

क्षपणक — सावका ! रक्खसस्स पिसाचस्स वा केलिअरो होहि । णत्थि उग दे अमुद्दानञ्छिद्रस्स इदो णिक्कमणोवाओ । ( उपासक ! राक्षसस्य पिशाचस्य वा केलिकरो भव । नास्ति पुनस्ते अमुद्रालान्छितस्येतो निष्क्रमणोपायः । )

सिद्धार्थक — भदन्त ! ण कुप्य, भग मे कज्जसिद्धी होदु त्ति (भदन्त न कुप्य, भग मे कार्यसिद्धिर्भवतु इति । )

क्षपणक — सावका ! गच्छ, होदु दे कज्जसिद्धी । अहंपि भागुराअणादो पाडलिउत्त गन्तु मुद्द पडिच्छेमि । ( उपासक ! गच्छ, भवतु ते कार्यसिद्धिः । अहमपि भागुरायणात् पाटलिपुत्रं गन्तुं मुद्रां प्रतीच्छामि ।)

[ इत्युभौ निष्क्रान्तौ । ]
[ इति प्रवेशकः ]

पञ्चमोऽङ्कः २८३

**हिन्दी अनुवाद—क्षपणक—**उपासक ! सुनो, पहले तो यहाँ मलयकेतु के शिविर में बिना रोक-टोक के लोगों का आना-जाना होता था । अब यहाँ से पाटलिपुत्र के समीप आ जाने पर किसी को भी बिना मुद्रा से चिह्नित हुए बाहर जाने या भीतर प्रविष्ट होने के लिए अनुमति नहीं दी जाती है। इसलिए यदि भागुरायण का मुद्रा-चिह्न हो तो बेखटके चले जाओ, अन्यथा लौटकर उत्सुकता से रहित होकर रहो । ताकि शिविर के अधिकारियों के द्वारा हाथ-पैर बाँधे हुए तुम राज-गृह में प्रविष्ट न करा दिये जाओ ।

**सिद्धार्थक—**क्या भदन्त नहीं जानते हैं कि मैं अमात्य राक्षस का विनोदी सेवक सिद्धार्थक हूँ । इसलिए बिना मुद्रा-चिह्न के भी बाहर जाते हुए मुझे रोकने की किसकी शक्ति है ?

**क्षपणक—**उपासक ! राक्षस या पिशाच का विनोदी रहो, किन्तु, बिना मुद्रा-चिह्न के तुम्हारे लिए यहाँ से बाहर निकलने का ( कोई ) उपाय नहीं है ।

**सिद्धार्थक—**भदन्त ! क्रोध मत कीजिए, कहिए कि मेरा कार्य सिद्ध हो जाय ।

**क्षपणक—**उपासक ! जाओ, तुम्हारा कार्य सिद्ध हो । मैं भी पाटलिपुत्र जाने के लिए भागुरायण से मुद्रा लेता हूँ ।

[ दोनों चले जाते हैं । ]

[ प्रवेशक समाप्त ]

**टिप्पणी—निशामय—**सुनो । नि √ शम् (चुरादि) + णिच् + लोट्—हि । अमुद्रालाञ्छितः—√ लाञ्छ् + क्त कर्मणि = लाञ्छितः । मुद्र्यते अनया इति √ मुद् + णिच् + अ करणे = मुद्रा । तया लाञ्छितः । न तथा इति अमुद्रा-लाञ्छितः नञ्तत्० । **निरुत्कण्ठम्—**निरुत्सुकम् यथा स्यात् तथा । **गुल्मस्थाना-धिपैः—**प्रहरिभिः । **संयमितकरचरणः—**करौ च चरणौ च इति करचरणम् प्राण्यङ्गत्वादेकवद्भावः । संयमितं करचरणमस्य इति संयमितकरचरणः । **राजकुलम्—**नृपालयम् । **प्रवेश्यसे—**प्र √ विश् + णिच् + लट् कर्मणि । इस वाक्य में 'मा' माङ् वाला नहीं है, अपि तु निषेधार्थक शुद्ध मा है । इसीलिए 'प्रवेश्यसे' में 'माङि लुङ्' से लुङ् लकार नहीं हुआ । **केलिकरः—**हास्यकरः । **अन्तिकः—**निकटवर्ती । कुप्य—√ कुप् ( दिवादि ) + लोट्—हि । भागु-

१८४ मुद्राराक्षसम्

रायणात्—अत्र अपादाने पञ्चमी । प्रवेशक —प्रवेशयति कथाप्रसङ्गं गमयति पात्रं प्रवेशयति वा इति प्र√विश्+ण्वुल् कर्तरि । दो अंकों के बीच एक प्रकार के अंक को प्रवेशक कहते हैं, जिसमें नीच पात्र न दिखायी हुई तथा भावी घटनाओं की सूचना देते हैं—'वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रवेशकस्तु नाट्यऽङ्के नीचपात्रप्रयोजितः ॥'

[ ततः प्रविशति पुरुषेणानुगम्यमानो भागुरायणः । ]

भागुरायणः —[ आत्मगतम् ] अहो ! विचित्रतैर्यचाणक्यनीतेः । कुतः —

मुहर्लक्ष्योद्भेदा मुहुरविगमाभावगहना मुहुः सम्पूर्णाङ्गी मुहुरतिकृशा कार्यवशात् । मुहुर्भ्रश्यद्वीजा मुहुरपि बहुप्रापितफले- त्यहो ! चित्राकारा नियतिरिव नीतिर्नयविदः ॥३॥

अन्वय —मुहुः लक्ष्योद्भेदा, मुहुः अधिगमाभावगहना, मुहुः सम्पूर्णाङ्गी, मुहुः कार्यवशात् अतिकृशा, मुहुः भ्रश्यद्वीजा मुहुः बहुप्रापितफला अपि इति अहो नियतिः इव नयविदः नीतिः चित्राकारा ॥३॥

व्याख्यामुहुः —वार वार, लक्ष्योद्भेदा—लक्ष्यं अनुमेय उद्भेद आविर्भाव यस्याः तादृशी, मुहुः —पुनरपि, अधिगमाभावगहना—अधिगमस्य उपलब्धे अभावात् विरहात् गहना दुर्बोधा, मुहुः —क्षणे क्षणे, सम्पूर्णाङ्गी—प्रथितावयवा, मुहुः —पुनरपि, कार्यवशात् —कृत्यानुरोधात्, अतिकृशा—अतिक्षीणा मुहुः —असकृत्, भ्रश्यद्वीजा—भ्रश्यत् नश्यत् बीजं कारणं यस्या तादृशी, मुहुः —पुनरपि, बहुप्रापितफला—बहु प्रचुरं यथा स्यात् तथा प्रापितानि ज्ञापितानि फलानि यया तादृशी, अपि, इति—अनेन प्रकारेण, अहो—आश्चर्यम्, नियतिः —दैवम्, इव—तद्वत्, नयविदः —नीतिज्ञस्य, नीतिः —नयः, चित्राकारा—बहुप्रकारा । पक्षान्तरेमुहुः, लक्ष्योद्भेदा—मुखसन्धौ अल्पोद्दिष्टा सती बहुधा विस्तारिणी, मुहुः, अधिगमाभावगहना—प्रतिमुखे लक्ष्यालक्ष्यव्यक्तेः दुर्बोधा, मुहुः, सम्पूर्णाङ्गा—विमर्शे बीजस्य स्पष्टदर्शनात् परिपूर्णावयवा, मुहुः, कार्यवशात्, अतिकृशा—प्रतिमुखे लक्ष्यालक्ष्यव्यक्तेरतीक्ष्णा, मुहुः, भ्रश्यद्वीजा

पञ्चमोऽङ्कः २८५

दृष्टनष्टान्वेषणान्नश्यदुद्योगा, 'मुहुः, 'बहुप्रापितफला—निर्वहणे सर्वार्थोपसहारादुपगतसाफल्या ॥३॥

हिन्दी अनुवाद—[ तत्पश्चात् एक अनुचर के साथ भागुरायण प्रवेश करता है । ]

भागुरायण—[ मन मे ] आर्य चाणक्य की नीति की विचित्रता अद्भुत है। क्योकि—

बार-बार अनुमान करने योग्य प्राकट्य वाली, फिर भी उपलब्धि के अभाव के कारण दुर्बोध, क्षण-क्षण में परिपुष्ट अगो वाली, फिर भी कार्य के अनुरोध से अत्यन्त क्षीण, बार-बार नष्ट बीज वाली, फिर भी अत्यधिक फल प्राप्त कराने वाली नीतिज्ञ की नीति भाग्य के समान बहुरंगी होती है, यह आश्चर्य है ॥३॥

टिप्पणीसम्पूर्णाङ्गी—सम्पूर्णानि अङ्गानि अस्याः इति सम्पूर्णाङ्गी बहुव्रीहि स०, ङीप् । इस श्लोक मे सन्धियो का विभाजन इस प्रकार किया जा सकता है—मुहुर्लक्ष्योद्भेदा—मुखसन्धि । मुहुर्धगमाभावगहना मुहुर्तिकृशा कार्यवशतः—प्रतिमुखसन्धि । मुहुर्नश्यद्वीजा—गर्भसन्धि । मुहुः सम्पूर्णाङ्गी—विमर्शसन्धि । मुहुपि बहुप्रापितफला—निर्वहणसन्धि । इस पद्य मे काव्यलिंग से अनुप्राणित उपमा और अप्रस्तुतप्रशंसा अलंकारो की ससृष्टि है । इसमें प्रसाद गुण है, पाञ्चाली रीति है और शिखरिणी छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥३॥

[ प्रकाशम् ] भद्र भासुरक ! न मां दूरीभवन्तमिच्छति कुमारः । अतोऽस्मिन्नेवास्थानमण्डपे विन्यस्यतामासनम् ।

पुरुषः—एदं आसणं, उपविसदु अज्जो । ( एतदासनम्, उपविशत्वार्यः । )

भागुरायणः—[ उपविश्य ] भद्र भासुरक ! यः कश्चिन्मुद्रार्थी मां द्रष्टुमिच्छति, स त्वया प्रवेशयितव्यः ।

पुरुषः—जं अज्जो आणवेदि । ( यदार्य आज्ञापयति । )

[ इति निष्क्रान्तः ]