भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 367, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 367

१८४ मुद्राराक्षसम्

रायणात्—अत्र अपादाने पञ्चमी । प्रवेशक —प्रवेशयति कथाप्रसङ्गं गमयति पात्रं प्रवेशयति वा इति प्र√विश्+ण्वुल् कर्तरि । दो अंकों के बीच एक प्रकार के अंक को प्रवेशक कहते हैं, जिसमें नीच पात्र न दिखायी हुई तथा भावी घटनाओं की सूचना देते हैं—'वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रवेशकस्तु नाट्यऽङ्के नीचपात्रप्रयोजितः ॥'

[ ततः प्रविशति पुरुषेणानुगम्यमानो भागुरायणः । ]

भागुरायणः —[ आत्मगतम् ] अहो ! विचित्रतैर्यचाणक्यनीतेः । कुतः —

मुहर्लक्ष्योद्भेदा मुहुरविगमाभावगहना मुहुः सम्पूर्णाङ्गी मुहुरतिकृशा कार्यवशात् । मुहुर्भ्रश्यद्वीजा मुहुरपि बहुप्रापितफले- त्यहो ! चित्राकारा नियतिरिव नीतिर्नयविदः ॥३॥

अन्वय —मुहुः लक्ष्योद्भेदा, मुहुः अधिगमाभावगहना, मुहुः सम्पूर्णाङ्गी, मुहुः कार्यवशात् अतिकृशा, मुहुः भ्रश्यद्वीजा मुहुः बहुप्रापितफला अपि इति अहो नियतिः इव नयविदः नीतिः चित्राकारा ॥३॥

व्याख्यामुहुः —वार वार, लक्ष्योद्भेदा—लक्ष्यं अनुमेय उद्भेद आविर्भाव यस्याः तादृशी, मुहुः —पुनरपि, अधिगमाभावगहना—अधिगमस्य उपलब्धे अभावात् विरहात् गहना दुर्बोधा, मुहुः —क्षणे क्षणे, सम्पूर्णाङ्गी—प्रथितावयवा, मुहुः —पुनरपि, कार्यवशात् —कृत्यानुरोधात्, अतिकृशा—अतिक्षीणा मुहुः —असकृत्, भ्रश्यद्वीजा—भ्रश्यत् नश्यत् बीजं कारणं यस्या तादृशी, मुहुः —पुनरपि, बहुप्रापितफला—बहु प्रचुरं यथा स्यात् तथा प्रापितानि ज्ञापितानि फलानि यया तादृशी, अपि, इति—अनेन प्रकारेण, अहो—आश्चर्यम्, नियतिः —दैवम्, इव—तद्वत्, नयविदः —नीतिज्ञस्य, नीतिः —नयः, चित्राकारा—बहुप्रकारा । पक्षान्तरेमुहुः, लक्ष्योद्भेदा—मुखसन्धौ अल्पोद्दिष्टा सती बहुधा विस्तारिणी, मुहुः, अधिगमाभावगहना—प्रतिमुखे लक्ष्यालक्ष्यव्यक्तेः दुर्बोधा, मुहुः, सम्पूर्णाङ्गा—विमर्शे बीजस्य स्पष्टदर्शनात् परिपूर्णावयवा, मुहुः, कार्यवशात्, अतिकृशा—प्रतिमुखे लक्ष्यालक्ष्यव्यक्तेरतीक्ष्णा, मुहुः, भ्रश्यद्वीजा

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 367, कुल 488 में से · BharatKosha