मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 369, कुल 488 में से
संदर्भ में पढ़ें२८६ | मुद्राराक्षसम्
भागुरायणः— [ स्वगतम् ] कष्टमेवमप्यस्मासु स्नेहवान् कुमारो मलयकेतुरतिसन्धातव्य इत्यहो दुष्करम् । अथवा—
कुले लज्जायाञ्च स्वयशसि च माने च विमुखः
शरीरं विक्रीय क्षणिकधनलाभाद्धनवति ।
तदाज्ञां कुर्वाणो हितमहितमित्येतदधुना
विचारातिक्रान्तं किमिति परतन्त्रो विमृशति ॥४॥
अन्वयः— क्षणिकधनलाभात् लज्जायां माने च स्वयशसि च कुले च विमुखः ( भूत्वा ) धनवति शरीरं विक्रीय विचारातिक्रान्तः परतन्त्र अधुना तदाज्ञां कुर्वाण इति हितम् एतत् अहितम् इति किं विमृशति ? ॥४॥
व्याख्या— क्षणिकधनलाभात्—क्षणिकम् अल्पकालिकं यत् धनं वित्तं तस्य लाभ प्राप्तिः तस्माद्धेतो, लज्जायां—त्रपायां, माने च—प्रतिष्ठायां च, स्वयशसि च—आत्मकीर्त्तौ च, कुले च—( स्व- ) वंशे च, विमुख—विरक्तः ( भूत्वा ), धनवति—वित्तशालिनि ( जने ), शरीर—वपु, विक्रीय—तदायत्तं कृत्वा, विचारातिक्रान्त—विचारम् विवेकम् अतिक्रान्तः अतीत, परतन्त्रः—पराधीनः, ( मादृशो जन ) अधुना—साम्प्रतम्, तदाज्ञा—तस्य धनवत प्रभो आज्ञा नियोग, कुर्वाण—विदधत्, इति—इदम्, हितम्—पथ्यम्, एतद्—इदम्, अहितम्—अपथ्यम्, इति—एतत्, कि—कथ, विमृशति—विचारयति ? ॥४॥
हिन्दी अनुवाद— [ प्रकट ] भद्र भासुरक ! कुमार मुझे दूर होता हुआ नहीं देखना चाहते हैं । इसलिए इसी सभा-मण्डप में आसन लगा दो ।
पुरुष— यह आसन है, आर्य बैठें ।
भागुरायणः— [ बैठकर ] भद्र भासुरक ! जो कोई मुद्रा चाहने वाला व्यक्ति मुझसे मिलना चाहे, उसे तुम भीतर ले आना ।
पुरुष— आर्य की जो आज्ञा ।
[ बाहर चला जाता है । ]
भागुरायणः— [ मन में ] कष्ट की बात है कि इस प्रकार मुझसे स्नेह