मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 383, कुल 488 में से
संदर्भ में पढ़ें३०० मुद्राराक्षसम्
टिप्पणी—अत्र वस्तुनि—अस्मिन् पर्वतेश्वरवधे इत्यर्थः । अनुग्राह्य—अनु√ग्रह्+ण्यत् कर्मणि । प्रमाणम्—निदर्शनम् । नन्दराज्यप्राप्त्युत्तरकाले यथा भवत रोचते तथा करिष्यतीत्यर्थः । सन्दिग्ध—सन्देहयुक्तः । सम्√दिह्+क्त अधिकरणे 'तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यनेन । गुल्मस्थानाधिकृत—शिविरप्रधानद्वारपालकः । गुल्मस्थाने अधिकृतः । गुणेषु—अत्र विषयाधिकरणे सप्तमी । तृप्यन्त्यै—तृपेरन्तर्भावितण्यन्तत्वात् तृप्तिप्रदायिन्यै इत्यर्थः । स्वामिभक्त्यै—यह प्रणामम्' का कर्म है । इसलिए 'स्वामिभक्तिम्' प्रयोग होना चाहिए था । किन्तु 'स्वामिभक्तिमनुकूलयितु प्रणामम्' इस विवक्षा में 'क्रियार्थोपपदस्य च कर्मणि स्थानिन' इस सूत्र से चतुर्थी होने पर 'स्वामिभक्त्यै' प्रयोग हो सकता है । इस पद्य मे निरङ्गरूपक अनकार है और आर्या छन्द है । आर्या का लक्षण १, ५ में देखिए ॥ ६ ॥
पुरुष—[ उपसृत्य ] अज्ज ! अअ सो पुरिसो । ( आर्य ! अय स पुरुष । )
भागुरायण—[ नाट्येनावलोक्य ] भद्र ! किमयमभागन्तुक, आहो स्विदिहैव कस्यचित्परिग्रहः ?
सिद्धार्थक—अज्ज ! अह क्खु अमच्चरक्खसस्स सेवओ । ( आर्य ! अह खल्वमात्यराक्षसस्य सेवक । )
भागुरायण—भद्र ! तत् किमर्थमनुगृहीतमुद्र कटकान्निष्क्रामसि ?
सिद्धार्थक—अज्ज ! कज्जगोरवेण तुवराविदोह्मि । (आर्य ! कार्य-गौरवेण त्वरायितोऽस्मि । )
भागुरायण—कीदृश तत्कार्यगौरव, यद्राजशासनमुल्लङ्घयसि ?
मलयकेतु—सखे भागुरायण ! लेखमुपानय ।
सिद्धार्थक—[ भागुरायणाय ' लेखमर्पयति । ]
भागुरायण—[ सिद्धार्थकहस्ताल्लेख गृहीत्वा मुद्रा दृष्ट्वा ] कुमार ! अय लेख, राक्षसनामाङ्कितेय मुद्रा ।
मलयकेतु—मुद्रा परिपालयन्नुद्घाटय दर्शय ।
भागुरायण—[ तथा कृत्वा दर्शयति । ]