मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 384, कुल 488 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३०१
मलयकेतुः—[ गृहीत्वा वाचयति । ] 'स्वस्ति, यथास्थानं कुतोपि, कोपि, कमपि, पुरुषविशेषमवगमयति । अस्मद्विपक्षं निराकृत्य दर्शिता कापि सत्यता सत्यवादिना । साम्प्रतमेषामपि प्रथममुपन्यस्तसन्धीनामस्मत्सुहृदां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन सत्यसन्धः, प्रीतिमुत्पादयितुमर्हति । एते ह्येवमनुगृहीताः सन्तः स्वाश्रयविनाशेनैवोपकारिणमाराधयिष्यन्ति । अविस्मृतमप्येतत्—सत्यवतः स्मारयामः । एतेषां मध्ये केचिदरेः कोषदन्तिभ्यामर्थिनः, केचिद् विषयेणेति अस्मान् प्रत्यलङ्कारत्रयञ्च, यत् सत्यवताऽनुप्रेषितं तदुपगतम् । अस्माभिरपि लेखस्याशून्यार्थं किञ्चिदनुप्रेषितं तदुपगमनीयं, वाचिकञ्चाप्ततमात् सिद्धार्थकाच्छ्रोतव्यम्' इति ।
व्याख्या—स्वस्ति—मङ्गलार्थकमव्ययमेतत्, यथास्थानं—स्थानमनतिक्रम्य कुतोऽपि—कस्मादपि स्थानादिति शेषः, कमपि, पुरुषविशेषम्—जनम्, अवगमयति—विज्ञापयति । अस्मद्विपक्षं—मम शत्रुं, निराकृत्य—निष्काश्य अमात्यपदात् पृथक्कृत्येत्यर्थः, सत्यवादिना—तथ्यभाषिणा, (भवता) कापि—लोकोत्तरा, सत्यता—सत्यपालनकर्तृता, दर्शिता—प्रकटिता । साम्प्रतम्—इदानीम्, प्रथमम्—प्राक्, उपन्यस्तसन्धीनाम्—उपन्यस्तः कृतः सन्धिः भवता सह सम्मेलनं यैः तथाविधानाम्, एषाम्, अस्मत्सुहृदाम्—अस्मन्मित्राणां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन—पूर्वं प्राक् प्रतिज्ञातस्य प्रतिश्रुतस्य सन्धेः सम्मेलनस्य परिपणः मूल्यभूतं यद् वस्तु तस्य प्रतिपादनं समर्पणं तेन प्रोत्साहनम् आश्वासनम् तेन, सत्यसन्धः—सत्यप्रतिज्ञः, प्रीतिम्—मुदम्, उत्पादयितुम् जनयितुम्, अर्हति—योग्यो भवति । एते—कौलूतप्रभृतयः, एवम्—इत्थम्, अनुगृहीताः—अनुकम्पिताः, सन्तः—भवन्तः, स्वाश्रयविनाशेनैव—स्वकीयावलम्बविघातेनैव हेतुना, उपकारिणम्—हितकारकं भवन्तमिति शेषः, आराधयिष्यन्ति । एतत्—पूर्वोक्तम्, अविस्मृतमपि—स्मृतमपीत्यर्थः, सत्यवतः—सत्यवादिनः भवत इत्यर्थः, स्मारयामः—स्मृतिपथं प्रापयामः । एतेषां—कौलूतप्रभृतीनां मध्ये, केचित्—कियन्तो जना इति शेषः, अरेः—रिपोः, कोषदन्तिभ्याम्—अर्थराशिगजाभ्याम्, अर्थिनः—धनवन्तः, केचित्—कियन्तो जनाः, विषयेण—राज्येन इति । अस्मान् प्रति अस्माकं पार्श्वे, अलङ्कारत्रयम्—त्रीणि भूषणानि, यत्, सत्यवता—सत्यभाषिणा भवतेति शेषः, अनुप्रेषितम्—प्रहितम्, तत्, उपगतम्—प्राप्तम्