मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 386, कुल 488 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ३०५
टिप्पणी—भद्र !—भद्रम् अस्य अस्ति इति भद्रः भद्र+अच् अर्श आदित्वात् । तत्सम्बुद्धौ हे भद्र इति । सर्वं तावत्तिष्ठतु—अच्छा रहने दो । मैं तुमसे इन सब बातो के विषय में नहीं पूछता हूँ । मैं केवल मौखिक सन्देश के बारे में जानना चाहता हूँ । युष्माभिः—श्रोतव्यमिति शेषः । यहाँ गूढ़ तात्पर्य यह है कि आप लोगों के सुनने के लिए ही यह सब कुछ आयोजन किया गया है, अतएव आप लोग इसे सुनें । मिश्रैः—पूज्यैः भवद्भिरिति शेषः । ताड्यताम्—आहन्यताम् । कक्षतः—भुजमूलात् ।
भागुरायणः—[ विलोक्य ] कुमार ! इयमपि राक्षसमुद्राङ्कितैव ।
मलयकेतुः—अयं लेखस्याशून्यार्थो भविष्यति । इमामपि मुद्रां परिपालयन्नुद्घाट्य दर्शय ।
भागुरायणः—[ तथा कृत्वा दर्शयति । ]
मलयकेतुः—[ विलोक्य ] अये ! तदिदमाभरणं, यन्मया स्वशरीरादवतार्य राक्षसाय प्रेषितम् । व्यक्तं चन्द्रगुप्तस्यायं लेखः ।
भागुरायणः—कुमार ! एष निर्णीयते संशयः । भद्र ! पुनरपि ताड्यताम् ।
पुरुषः—जं अज्जो आणवेदि । ( यदार्य आज्ञापयति । ) [ इति निष्क्रम्य पुनः प्रविश्य च ] अज्ज ! एसो क्खु ताड़ीअमाणो विण्णवेदि—कुमारस्स स्सअं ज्जेब णिवेदेमि त्ति । ( आर्य एष खलु ताड्यमानो विज्ञापयति—कुमारस्य स्वयमेव निवेदयामीति । )
मलयकेतुः—प्रवेशय ।
पुरुषः—जं कुमालो आणवेदि । ( यत् कुमार आज्ञापयति । )
[ इति निष्क्रम्य सिद्धार्थकेन सह पुनः प्रविशति । ]
सिद्धार्थकः—[ पादयोर्निपत्य ]—अभएण मे कुमालो प्पसादं करेदु । ( अभयेन मे कुमारः प्रसादं करोतु । )
मलयकेतुः—भद्र ! भद्र !! अभयमेव परायत्तजनस्य, तन्निवेद्यतां यथाऽवस्थितम् ।
मु० रा०—२०