भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 390, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 390

'पञ्चमोऽङ्कः' ३०६

साध्ये निश्चितमन्वयेन घटितं बिभ्रत् सपक्षे स्थितिं व्यावृत्तञ्च विपक्षतो भवति यत् तत् साधनं सिद्धये । यत् साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धञ्च यत् तस्याङ्गीकरणेन वादिन इव स्यात् स्वामिनो निग्रहः ॥ १० ॥

अन्वयः— यत् साधन साध्ये निश्चितम् सपक्षे स्थितिं बिभ्रत् अन्वयेन घटितं विपक्षतो व्यावृत्तं च तत् सिद्धये भवति । यत् स्वयमेव साध्यम् उभयोः तुल्यम्, यच्च पक्षे विरुद्धं तस्य अङ्गीकरणेन वादिनः इव स्वामिनः निग्रहः स्यात् ॥ १० ॥

व्याख्या— (वादिपक्षे—) यत् साधनं—धूमादिरूपं हेतुः, साध्ये—सिद्धिविषयीभूते वह्नयादौ निश्चितं—निश्चितव्याप्तिकम् असंदिग्धमिति यावत्, सपक्षे—पक्षसदृशे निश्चितसाध्यवति महानसादौ, स्थितिं—सत्तां, बिभ्रत्—धारयत्, अन्वयेन—तत्सत्त्वनियतसत्ताकत्वरूपान्वयव्याप्त्या, घटितं—विशिष्टं, विपक्षतः—साध्याभाववतः जलह्रदादेः, व्यावृत्तं च—व्यपगतं च अवर्तमाने प्रतिपाद्ये स्वयमप्यवर्तमानमित्यर्थः, तत्—साधनं सिद्धये—वह्नयनुमानाय, भवति—जायते । यत्—साधनं हेतुः, स्वयमेव, साध्यं—हेत्वन्तरेणानुमेयम्, उभयोः—सपक्षविपक्षयोः, तुल्यम्—उभयत्र वर्तमानमवर्तमानं वा (दृश्यते), यच्च—साधनं, पक्षे, विरुद्धं—विपरीतं साध्यधर्मासत्त्वेऽपि स्वयं सदित्यर्थः, तस्य—तथाविधस्य साधनस्य, अङ्गीकरणेन—स्वीकरणेन, स्वामिनः—भर्तुः राज्ञ इत्यर्थः, इव, वादिनः—तार्किकस्य, निग्रहः—पराजयः, स्यात्—भवेत् । (स्वामिपक्षे—) साध्ये—शत्रुविनाशनात्मके कार्ये, निश्चितं—निर्णीतं योग्यतया अध्यवसितमित्यर्थः, यत् साधनं—सैन्यम्, अन्वयेन—पुरुषपरम्परया, घटितं—प्राप्तं कुलक्रमागतमित्यर्थः, सपक्षे—निजवर्गे, स्थितिम्—अवस्थानं, बिभ्रत्—दधत्, विपक्षतः—शत्रुवर्गात्, व्यावृत्तं—पराङ्मुखम्, तत् सैन्यम्, सिद्धये—कार्यसिद्धये, भवति । यत्—सैन्यम्, स्वयमेव—आत्मना एव, साध्यम्—सम्पाद्यम् (न तु कुलक्रमागतमिव सिद्धम् अथवा), उभयोः—सपक्षविपक्षयोः, तुल्यम्—समानादरम्, यच्च, पक्षे—स्ववर्गे, विरुद्धं—विषमं, तस्य, अङ्गीकरणेन, वादिनः इव स्वामिनः निग्रहः स्यात् ॥ १० ॥

हिन्दी अनुवाद— (वादी के पक्ष में—) जो (धूम आदि रूप) हेतु