मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 397, कुल 488 में से
संदर्भ में पढ़ें३१८ मुद्राराक्षसम्
राक्षस —[ विलोक्य ] अये ! सिद्धार्थक ! भद्र ! किमिदम् ?
सिद्धार्थक —[ सबाष्पं लज्जां नाटयन् ] प्पसीददु प्पसीददु अमच्चो । अमच्च ! अतिताडीअन्तेण मए ण पारिदं अमच्चस्स रहस्स धारिदुं । ( प्रसीदतु प्रसीदत्वमात्य । अमात्य ! अतिताड्यमानेन मया न पारितममात्यस्य रहस्यं धारयितुम् । )
राक्षस —भद्र ! कीदृशं तत् रहस्यम् ? न खल्ववगच्छामि ।
सिद्धार्थक —ननु विष्णवेमि, ताडीअन्तेण मए—' । ( ननु विज्ञापयामि ताड्यमानेन मया—') [ इत्यधोक्तं सभयमधोमुखस्तिष्ठति ]
मलयकेतु — भागुरायण ! स्वामिनः पुरस्ताद् भीतो लज्जितश्च नैष कथयिष्यति, अतः स्वयमेवार्याय कथय ।
भागुरायण — यदाज्ञापयति कुमारः । अमात्य ! एष कथयति, यथा—'अहममात्यराक्षसेन लेखं दत्त्वा वाचिकञ्च सन्दिश्य चन्द्रगुप्तसकाशं प्रेषित' इति ।
राक्षस —भद्र सिद्धार्थक ! अपि सत्यम् ?
सिद्धार्थक —[ लज्जां नाटयन् ] एव्वं अतिताडीअन्तेण मए णिवेदितं । ( एवमतिताड्यमानेन मया निवेदितम् ।) ।
राक्षस — कुमार ! अनृतमेतत् ताड्यमानः किं न ब्रूयात् ?
मलयकेतु —भागुरायण ! दर्शय लेखं, वाचिकञ्चायमस्मै स्वभृत्यः कथयिष्यति ।
हिन्दी अनुवाद—राक्षस—[देखकर] अरे ! सिद्धार्थक ! भद्र ! यह क्या ?
सिद्धार्थक—[आंसू के साथ लज्जा का अभिनय करते हुए] अमात्य प्रसन्न हों, प्रसन्न हों। अमात्य ! बहुत पीटा जाता हुआ मैं अमात्य का रहस्य नहीं धारण कर पाया।
राक्षस—भद्र ! कैसा वह रहस्य है ? मैं नहीं समझ पा रहा हूँ।
सिद्धार्थक—निवेदन तो कर रहा हूँ कि पीटा जाता हुआ मैं—'। [ ऐसा आधा कहने पर भयपूर्वक मुंह नीचे किये खड़ा हो जाता है । ]