भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 418, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 418

षष्ठोऽङ्कः ३४१

केशवः । हरिवंश में इसकी निरुक्ति इस प्रकार की गई है—‘हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ॥’ जयन—जयति अस्मिन् इति √जि+ल्युट् अधिकरणे = जयनम् । इस पद्य में लुप्तोपमा, रूपक तथा विभावना अलंकारो की संसृष्टि है। इसमे मालिनी छन्द है। मालिनी का लक्षण ३, १५ मे देखिए ॥ १ ॥

ता जाव चिरस्य कालस्स पिअबअस्सं सुसिद्धत्थअ पेक्खामि । [ परिक्रम्यावलोक्य च ] अअं उण पिअबअस्सओ सुसिद्धत्थओ इदो ज्जेब आअच्छीदी ता जाव उबसप्पामि । ( तद्यावच्चिरस्य कालस्य प्रियवयस्यं सुसिद्धार्थकं पश्यामि । अयं पुनः प्रियवयस्यः सुसिद्धार्थक इत एवागच्छति, तद्यावदुपसर्पामि ।

[ ततः प्रविशति सुसिद्धार्थकः । ]

सुसिद्धार्थकः—

सन्तावेन्ता आबाणेसुं महूसवेसुं रुआबेन्ता ।
हिअअच्छिआ अवि विहवा विरहे मित्ताणं दुम्मणाअन्ते ॥२॥
( सन्तापयन्तः आपानेषु महोत्सवेषु रुजायन्तः ।
हृदयस्थिता अपि विभवा विरहे मित्राणां दुर्मनायन्ते ॥२॥)

अन्वयः—मित्राणां विरहे विभवाः हृदयस्थिता अपि आपानेषु सन्तापयन्तः महोत्सवेषु रुजायन्तः दुर्मनायन्ते ॥ २ ॥

व्याख्या—मित्राणां—सुहृदां, विरहे—वियोगे, विभवाः—ऐश्वर्याणि, हृदयस्थिता अपि—अन्तःकरणवर्तिनोऽपि, आपानेषु—पानगोष्ठीषु, सन्तापयन्तः—क्लेशं जनयन्तः, महोत्सवेषु—नृत्यगीतादिषु समारम्भेषु, रुजायन्तः—मनोरोगं समुत्पादयन्तः, दुर्मनायन्ते—निरानन्दवन्तः सम्पत्स्यन्ते ॥ २ ॥

हिन्दी अनुवाद—तो बहुत दिनों के बाद प्रिय मित्र सुसिद्धार्थक को देख रहा हूँ। [ घूमकर और देखकर ] फिर यह प्रिय मित्र सुसिद्धार्थक इधर ही आ रहा है। इसलिए समीप जाता हूँ।

[तब सुसिद्धार्थक प्रवेश करता है।]