मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 422, कुल 488 में से
संदर्भ में पढ़ेंषष्ठाङ्कः ३४५
उपपदतत्० । दुराचारः— दुः दुष्ट आचारः व्यवहारः यस्य स दुराचारः प्रादिबहुव्रीहि स० । **उज्झित्वा—**परित्यज्य । **भयविलोलासैन्यतनूकृतशेषपरिवारेषु—**भयेन साध्वसेन विलोलानि चपलानि विह्वलानि वा सैन्यानि, तैः तनूकृताः शेषाः परिवाराः येषां ते तथोक्ताः, तेषु । **विषयम्—**जनपदम् । **संयतितः—**धृतः ।
सुसिद्धार्थकः— वअस्स ! भद्दभटप्पमुहा किल देअस्स चन्दासिरिणो अवरत्ता मलअकेदुं समास्सिदा त्ति लोए मन्तीअदि । ता किं णिमित्त एदं कुकविणाडअस्स विअ अण्णं मुहे अण्णं णिव्वहणे त्ति ? (वयस्य ! भद्रभटप्रमुखाः किल देवस्य चन्द्रश्रियोऽपरक्ता मलयकेतुं समाश्रिता इति लोके मन्त्र्यते । तत् किं निमित्तमेतत् कुकविनाटकस्येवान्यन्मुखेऽन्यन्निर्वहण इति ?)
सिद्धार्थकः— वअस्स ! सुणु दाव, दैवगदीए विअ असुणिदगदीए णमो अज्जचाणक्कणीदीए । (वयस्य ! शृणु तावत्, देवगत्ये इवाश्रुतगत्यै नम आर्यचाणक्यनीतये ।)
सुसिद्धार्थकः— अअस्स ! तदो तदो ? (वयस्य ! ततस्ततः ?)
सिद्धार्थकः— बअस्स ! तदो प्पहुदि, सारसाहणसमुदएण इदो णिक्कमिअ अज्जचाणक्केण पडिवण्णं अराअलोअं असेसराअबलं । (वयस्य ! ततः प्रभृति सारसाधनसमुदयेनेतो निष्क्रम्य आर्यचाणक्येन प्रतिपन्नमराजलोकमशेषराजबलम् ।)
सुसिद्धार्थकः— बअस्स ! कहिं ? (वयस्य ! कुत्र ?)
सिद्धार्थकः— बअस्स ! जहिं एदे,—(वयस्य ! यत्रैते,—)
अदिसअगुरुएणं दाणदप्पेण दन्ती
सजलजलदलीला उव्वहन्ता णदन्ति ।
कसपहरभएण जादकम्पा तुरन्ता
गहिदजअणसज्जा सपदन्त तुलगा ॥ ३ ॥
( अतिशयगुरुकेण दानदर्पेण दन्तिनः
सजलजलदलीलामुद्वहन्तो नदन्ति ।