मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 424, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३४७
से सजल मेघों की भाँति लीला करते हुए गर्जन कर रहे हैं और घोड़े चाबुक की मार के भय से काँपते हुए तथा ( अपने सवारों को ) शीघ्रतायुक्त करते हुए ( युद्धार्थ ) तत्पर हो रहे हैं ॥ ३ ॥
टिप्पणी—चन्द्रश्रियः—अत्र शेषे षष्ठी । चन्द्रश्रियः चन्द्रगुप्तस्य सम्बन्धे अपरक्ताः । मन्त्र्यते—कथ्यते । मुखे—मुखसन्धौ प्रारम्भे इत्यर्थः । निर्वहणे—निर्वहणसन्धौ—उपसंहारे इत्यर्थः । निरुह्यते इतस्तत आदाय पिण्डीक्रियते एकार्थीक्रियते अस्मिन् इति निर्√वह्+ल्युट् अधिकरणे = निर्वहणम् । अश्रुतगत्यै—अश्रुता गतिर्यस्याः सा अश्रुतगतिः, तस्यै अनाकर्णितकृत्यै इत्यर्थः । आर्यचाणक्यनीत्यै—अत्र नमः शब्दयोगे चतुर्थी । सारसाधनसमुदयेन—साध्यते अनेन इति √साध्+ल्युट् करणे = साधनम् = सैन्यम् । सारं साधनम्, तस्य समुदयेन समूहेन । प्रतिपन्नम्—अधिकृतम् । अराजलोकम्—नृपजनरहितम् । अशेषराजबलम्—समस्तनृपसैन्यम् । अतिशयगुरुकेण—गुरुरेव गुरुकः अतिशयश्चासौ गुरुकः अतिशयगुरुकः, तेन = अतिप्रवृद्धेन वा अतिप्रबलेन । जातकम्पास्त्वरयन्तः—यहाँ 'जातकम्पोत्तरङ्गाः' पाठभेद मिलता है । अर्थ होगा—काँपते हुए तथा चंचल । अर्थात् घोड़े इस तरह काँप रहे है कि मानो तरंगों के समान चक्कर काट रहे हैं । इस श्लोक के पूर्वार्ध में उपमा तथा रूपक का सन्देहसङ्कर है और उत्तरार्ध में समासोक्ति तथा पदार्थहेतुक काव्यलिंग अलंकार हैं । इसमे मालिनी छन्द है । मालिनी का लक्षण ३, १५ में देखिए ॥ ३ ॥
सुसिद्धार्थकः—बअस्स ! एदं सव्वं दावं चिट्ठदु, तहा सव्वलोअपच्चक्खं उज्जआहिआरो भविअ कहं अज्जचाणक्को पुणो बि तं ज्जेब मन्तिपदं आरूढो ? ( वयस्य ! एतत् सर्वं तावत् तिष्ठतु । तथा सर्वलोकप्रत्यक्षमुज्झिताधिकारो भूत्वा कथमार्थचाणक्यः पुनरपि तदेव मन्त्रिपदमारूढः ? )
सिद्धार्थकः—बअस्स ! अदिमुद्धो दाणी सि तुमं, जो अमच्चरक्खसेण अणवगाहिदपुव्वं अज्जचाणक्कबुद्धिं अवगाहिदुं इच्छसि ? ( वयस्य ! अतिमुग्ध इदानीमसि त्व, योऽमात्यराक्षसेनानवगृहीतपूर्वामार्यचाणक्यबुद्धिमवगाहितुमिच्छसि । )