भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 433, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 433

३५६ मुद्राराक्षसम्

इति तद्विधः । तद्विधः मृत्युः तद्विधमृत्युः । तस्य योग्यः । न तद्विधमृत्युयोग्यः अतद्विधमृत्युयोग्यः, तस्मिन् । इस पद्य में काव्यलिंग, परिसंख्या और अतिशयोक्ति अलंकारों की संसृष्टि है । इसमें वसन्ततिलका छन्द है । इस छंद का लक्षण १, ८ में देखिए ॥७॥

अहो ! विवेकशून्यता म्लेच्छस्य मलयकेतोः । कुतः ?

यो नष्टानपि जीवनाशमधुना शुश्रूषते स्वामिन- स्तेषां वैरिभिरक्षतः कथमसौ सन्धास्यते राक्षसः ? । इत्य वस्तु विवेकमूढमतिना म्लेच्छेन नालोचितं दैवेनोपहतस्य बुद्धिरथवा पूर्वं विपर्यस्यति ॥८॥

अन्वय — यः अधुना अपि जीवनाशं नष्टान् स्वामिनः शुश्रूषते असौ राक्षसः अक्षतः ( सन् ) तेषां वैरिभिः कथं सन्धास्यते ? इत्य वस्तुविवेकमूढ-मतिना म्लेच्छेन न आलोचितम्, अथवा दैवेन उपहतस्य बुद्धिः पूर्वं विपर्यस्यति ॥८॥

व्याख्या — यः — राक्षसः, अधुना अपि — इदानीमपि, जीवनाशं — समूलं, नष्टान् — मृतान्, स्वामिनः — प्रभून्, शुश्रूषते — परिचरति, असौ — एषः, राक्षसः — नन्दामात्यः, अक्षतः — अविनष्टदेहः (सन्), तेषां — स्वामिनां, वैरिभिः — शत्रुभिः (सह), कथं — केन प्रकारेण, सन्धास्यते — संधिं करिष्यति ? इत्थम् — एतत्, वस्तुविवेकमूढमतिना — वस्तुनः यथार्थविषयस्य विवेके विचारे मूढा अल्पा असमर्थेति यावत् मतिः बुद्धिः यस्य तादृशेन, म्लेच्छेन — यवनेन मलयकेतुना, न — नहि, आलोचितम् — विचारितम्, अथवा — पक्षान्तरे, दैवेन — भाग्येन, उपहतस्य — ताडितस्य, बुद्धिः — धीः, पूर्वं — प्राक्, विपर्य-स्यति — विपरीता भवति ॥८॥

हिन्दी अनुवाद — यवन मलयकेतु की विवेकहीनता पर आश्चर्य है । क्योंकि —

जो अभी भी समूल नष्ट हुए स्वामियों की सेवा कर रहा है, वह राक्षस अक्षतशरीर होता हुआ उन (स्वामियों) के शत्रुओं के साथ कैसे सन्धि कर लेगा ? इतना यथार्थ विषय के विवेक करने में असमर्थ बुद्धि वाले यवन

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 433, कुल 488 में से · BharatKosha