भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 434, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 434

षष्ठोऽङ्कः ३५७

मलयकेतु ने नहीं सोचा। अथवा भाग्य से मारे हुए की बुद्धि पहले विपरीत हो जाती है ॥८॥

टिप्पणीजीवनाशम्—जीवन के नाश के साथ अर्थात् समूल। जीव $\sqrt{}$ नश् $+$ णामुल् 'कर्तॄजीवपुरुषयोर्नशिवहोः' इत्यनेन। कहीं 'बीजनाशम्' पाठ है। उसका भी अर्थ 'समूल' होगा। बीज $\sqrt{}$ नश् $+$ णामुल् 'उपमाने कर्मणि च' इत्यनेन। शुश्रूषते—अत्र 'ज्ञाश्रुस्मृदृशां सनः' इत्यनेन आत्मनेपदम्। विपर्यस्यति—वि-परि $\sqrt{}$ अस् $+$ लट्—तिप्। इस श्लोक में अर्थान्तरन्यास अलंकार है, प्रसाद गुण है और वैदर्भी रीति है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥८॥

तदिदानीमपि तावदरातिहस्तगतो विनश्येद्राक्षसो, न तु चन्द्रगुप्तेन सह सन्धिं कुर्यादिति; अथवा मम काममसत्यसन्ध इति, वरमयशः, न पुनः शत्रुवञ्चनपरिभूतिः। [ समन्तादवलोक्य सास्रम् ] एतास्ता देवस्य पादक्रमणपरिचयपवित्रीकृतरथ्याः कुसुमपुरोपकण्ठभूमयः।

इह हि—

शार्ङ्गं ज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे देवेनाकारि चित्रं प्रजविततुरगं बाणमोक्षश्चलेषु। अस्यामुद्यानराजौ स्थितमिह कथितं राजभिस्तैर्विनेत्थं सम्प्रत्यालोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयन्ति ॥९॥

अन्वयः—अत्र देशे शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेण देवेन चलेषु प्रजविततुरगं चित्रं बाणमोक्षः अकारि, अस्याम् उद्यानराजौ स्थितम्, इह राजभिः कथितम्; सम्प्रति तैः विना इत्थम् आलोक्यमानाः कुसुमपुरभुवः भूयसा दुःखयन्ति ॥९॥

व्याख्याअत्र देशे—अस्मिन् भूभागे, शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविका-प्रग्रहेण—शार्ङ्गस्य धनुषः ज्या मौर्वी तस्याः आकृष्टः आकर्षणम् तया मुक्तः त्यक्तः ( अतएव ) प्रशिथिलः अतिश्लथः कविकायाः खलीनस्य प्रग्रहः रश्मिः यस्य तथाविधेन, देवेन—नन्देन, चलेषु—अस्थिरेषु, ( लक्ष्येषु ) प्रजविततुरगं प्रजवितः प्रवृद्धवेगः तुरगः अश्वः यस्मिन् कर्मणि तद् यथा तथा, ( अतएव )