मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 436, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः | ३५६
अलंकारों की संसृष्टि है। इसमें स्रग्धरा छन्द है। स्रग्धरा का लक्षण १, १ में देखिए ॥ ६ ॥
तत् क्व खलु गच्छामि मन्दभाग्यः ? [ विलोक्य ] भवतु दृष्टमेतज्जोर्णोद्यानम्, अत्र प्रविश्य कुतश्चिच्चन्दनदासस्य वृत्तान्तमुपलप्स्ये । [ परिक्रम्य स्वगतम् ] अहो ! अलक्षितोपनिपाताः पुरुषाणां समविषमदशाविभागपरिणतयो भवन्ति । कुतः?—
पौरैरङ्गुलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनैः यो राजेव पुरा पुरान्निर्गमं राज्ञां सहस्रैर्वृतः । भूयः सम्प्रति सोऽहमेव नगरे तत्रैव बन्ध्यश्रमो जीर्णोद्यानकमेष तस्कर इव त्रासाद् विशामि द्रुतम् ॥ १० ॥
अन्वयः—यः अहम् पुरा राज्ञां सहस्रैः वृतः राजा इव पौरैः अङ्गुलिभिः नवेन्दुवत् निर्दिश्यमानः ( सन् ) शनैः पुरात् निर्गमं स एव वन्ध्यश्रमः अहं सम्प्रति भूयः तत्रैव नगरे तस्कर इव त्रासात् द्रुतं जीर्णोद्यानकम् एव विशामि ॥ १० ॥
व्याख्या—यः, अहम्—राक्षसः, पुरा—पूर्वं जीवति नन्दे इत्यर्थः, राज्ञां सहस्रैः—नृपसमूहैः, वृतः—परिवारितः ( भूत्वा ), राजा इव—भूप इव, पौरैः—पुरवासिभिः, अङ्गुलिभिः—करशाखासंकेतेनेत्यर्थः, नवेन्दुवत्—नवोदितचन्द्र इव, निर्दिश्यमानः—प्रदर्श्यमानः ( सन् ), शनैः—मन्दगति, पुरात्—नगरात्, निर्गमम्—निर्गतवान्, स एव, वन्ध्यश्रमः—विफलप्रयासः, अहम्, सम्प्रति—अधुना, भूयः—पुनः, तत्रैव नगरे—तस्मिन्नेव पुरे, तस्कर इव—चौर इव, त्रासात्—भयात्, द्रुतं—सत्वरं, जीर्णोद्यानकम्—पुरातनाल्पोपवनम्, एषः, विशामि—प्रविशामि ॥ १० ॥
हिन्दी अनुवाद—तो मैं अभागा कहाँ जाऊँ ? [ देखकर ] अच्छा, इस पुराने उद्यान को देख लिया । इसमें प्रवेश करके कहीं से चन्दनदास का समाचार प्राप्त करूँगा । [ घूमकर मन में ] ओह ! मनुष्यों के अनुकूल और प्रतिकूल अवस्थाओं के विभाग के परिणाम बिना संभावना के आ टपकते हैं । क्योंकि—