मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 444, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३७१
राक्षस—क्या वे दुर्लभ पर-नारी में अनुरक्त ( होने के कारण ऐसा कर रहे ) हैं ?
पुरुष—[ कानों को बन्द करके ] आर्य ! पाप शान्त हो, पाप शान्त हो । यह अत्यन्त विनीत वणिग् जाति, विशेष करके जिष्णुदास के लिए अयोग्य बात है ।
राक्षस—क्या आप की तरह मित्र का विनाश ही उनके विनाश का कारण है ?
टिप्पणी—औषधपथातिगैः—औषधानां पन्थाः औषधपथः 'ऋक्पूरब्धूः'—इत्यनेन समासान्तः अप्रत्ययः । तम् अतिगच्छन्ति इति औषधपथ अति√गम् + ड कर्तरि = औषधपथातिगाः, तैः । अग्निविषकल्पया—अग्निश्च विषञ्च इति अग्निविषे, ताभ्याम् ईषदूना इति अग्निविष + कल्पप् स्त्रियाम्, तया । अनृशंसा—अघातुका । प्रतिपत्तिः--प्रवृत्तिरित्यर्थः । अभूमिः—अविषयः । इस श्लोक में उपमोत्थापित रूपक अलंकार है । इसमें पृथ्वी छन्द है । पृथ्वी का लक्षण यह है—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' ॥१६॥
पुरुषः—अज्ज ! अध इं ? ( आर्य ! अथ किम् ? )
राक्षसः—[ सावेगमात्मगतम् ] चन्दनदासोऽस्य सुहृदः प्रियसुहृत्, तस्य प्रिसुहृद्विनाश एवाऽग्निप्रवेशहेतुरिति यत् सत्यं समाकुलित एवाऽस्मि सुहृत्स्नेहपक्षपातिना हृदयेन । [ प्रकाशम् ] भद्र ! तस्यापि तव सुहृदः सुचरितं विस्तरेण श्रोतुमिच्छामि ।
पुरुषः—अज्ज ! अदो अबरं ण सक्कणोमि मन्दभाओ मरणस्स विग्धमुप्पादेदुं । ( आर्य ! अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विघ्नमुत्पादयितुम् । )
राक्षसः—श्रवणीयां कथां कथयतु भद्रमुखः ।
पुरुषः—का गदी ? एसो क्खु णिवेदेमि, णिसामेदु अज्जो । ( का गतिः ? एष खलु निवेदयामि, निशामयत्वार्यः । )
राक्षसः—भद्र ! दत्तावधानोऽस्मि ।