भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 448, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 448

षष्ठोऽङ्कः । ३७५

दासो संजमिदो, किंतु पच्छादिदो अणेण अमच्चरक्खसस्स घरअणो, बहुसो जाचिदेणावि ण समप्पिदो त्ति ताजइ अमच्चरक्खसस्स घरअणं समप्पेदि, तदो अत्थि से मोक्खो, अण्णधा प्पाणहरो से दण्डो' त्ति भणिअ बज्झट्ठाणं आणिदो चन्दणदासो। तदो 'जाव पिअबअस्सस्स चन्दणदासस्स असुणिदव्वं ण सुणेमि, तावज्जैव अत्ताणं बावादेमि' त्ति ज्जलणे प्वबिसिदुकामो सेट्ठी जिण्णुदासो णअरादो णिग्गदो। अहं वि जाव पिअबअस्सस्स जिण्णुदासस्स असुणिदव्वं ण सुणेमि, ताव उब्बन्धिअ अत्ताणं बावादेमि, त्ति इमं जिण्णुज्जाणं आगदो ह्मि।

( आर्य ! तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठो जिष्णुदासः—'जिष्णुदास ! न मयाऽर्थस्य कारणेन श्रेष्ठो चन्दनदासः संयमितः, किन्तु प्रच्छादितोऽनेनामात्यराक्षसस्य गृहजनः, बहुशो याचितेनाऽपि न समर्पित इति। तद्यद्यमात्यराक्षसस्य गृहजनं समर्पयति,ततोऽस्त्यस्य मोक्षः, अन्यथा प्राणहरोऽस्यदण्ड' इति भणित्वा वध्यस्थानमानीतश्चन्दनदासः। ततो 'यावत् प्रियवयस्यस्य चन्दनदासस्याश्रोतव्यं न शृणोमि, तावदेवात्मानं व्यापादयामि' इति ज्वलने प्रवेष्टुकामः श्रेष्ठो जिष्णुदासो नगरात्निर्गतः। अहमपि यावत् प्रियवयस्यस्य जिष्णुदासस्याश्रोतव्यं न शृणोमि, तावदुद्बध्यात्मानं व्यापादयामि, इतीदं जीर्णोद्यानमागतोऽस्मि ।)

व्याख्या—ततः—तदनन्तरम्, एवम्—इत्थम्, भणितेन—उक्तेन, चन्द्रगुप्तेन—मौर्येण, श्रेष्ठो जिष्णुदासः प्रतिभणितः—प्रत्युक्तः, 'मया, अर्थस्य—धनस्य, कारणेन—हेतुना, श्रेष्ठो चन्दनदासः, न संयमितः—न बद्धः, किन्तु, अनेन, अमात्यराक्षसस्य, गृहजनः—कलत्रादि, प्रच्छादितः—गोपितः, बहुशः—असकृत्, याचितेनापि—अर्थितेनापि, न समर्पितः—न दत्तः। तत्—तस्मात्, यदि—चेद, अमात्यराक्षसस्य, गृहजनं—परिवारं, समर्पयति—ददाति, ततः—तदा, अस्य—चन्दनदासस्य, मोक्षः—मुक्तिः, ( अस्ति ) अन्यथा—तदसमर्पणे, अस्य—चन्दनदासस्य, प्राणहरः—जीवनाशः, दण्डः—क्लेशः, ( भविष्यति )' इति भणित्वा—एवमुक्त्वा, चन्दनदासः, वध्यस्थानं—मारणभूमिम्, आनीतः—प्रापितः। ततः—तदुत्तरं 'यावत्—यत्कालपर्यन्तं; प्रियवयस्यस्य—प्रियसूहृदः चन्दनदासस्य, अश्रोतव्यम्—अनाकर्णनीयं मरणमिति यावत्, न शृणोमि—