मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 456, कुल 488 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ३८३
[ बाहर चला जाता है । ]
टिप्पणी—चन्द्रगुप्तहतक्रेन, आर्यशकटदासस्य—इन दोनों पदों में 'हतक' तथा 'आर्य' शब्द जोड़कर वह दिखलाना चाहता है कि मैं नन्दवंश के प्रति अनुरक्त हूँ । त्वरायितः—देखिए टिप्पणी अंक ५ श्लोक ६ के आगे ।
राक्षस०—[ स्वगतम् ] अहो ! दुर्बोधश्चाणक्यवटोंनीतिमार्गः । कुतः ?—
यदि स शकटो नीतः शत्रोर्मतेन ममान्तिकं किमिति निहतस्तेन क्रोधाद् वधाधिकृतो जनः ? । अथ न कृतकं तादृक्कष्टं कथं नु विभावये- दिति मम मतिस्तर्कारूढा न पश्यति निश्चयम् ॥२०॥
अन्वयः—स शकटः यदि शत्रोः मतेन ममान्तिकं नीतः (तर्हि) तेन क्रोधात् वधाधिकृतः जनः किमिति निहतः ? अथ कृतक न, तादृक् कष्ट कथ नु विभावयेत् ? इति मम मतिः तर्कारूढा निश्चयं न पश्यति ॥ २० ॥
व्याख्या—सः—मम मित्रं, शकटः—शकटदासः, यदि—चेत्, शत्रोः—रिपोः, मतेन—आज्ञया, मम—मे, अन्तिकं—समीपं, नीतः—प्रापितः (तर्हि), तेन—कौटिल्येन, चन्द्रगुप्तेन वा, क्रोधात्—कोपात्, वधाधिकृतः—वधे हनने अधिकृतः नियोजितः, जनः—लोकः, किमिति—कुतः, निहतः—व्यापादितः ? अथ—पक्षान्तरे, कृतकं न—मिथ्या न ( अपि तु यथार्थमेव पर्यवसन्न तदात्वे ) तादृक्—यथाविध, कष्टं—विषममनुष्ठानं स्वहस्तलेखमुद्राङ्कनादिरूपमिति यावत् कथं नु—केन वा प्रकारेण, विभावयेत्—चिन्तयेत् ?, इति—इत्थम्, मम—मे, मतिः—बुद्धिः, तर्कारूढा—ऊहे प्रवृत्ता ( सती ), निश्चय—सिद्धान्तं, न पश्यति—नाधिगच्छति ॥ २० ॥
हिन्दी अनुवाद—राक्षस—[ मन में ] ओह ! दुष्ट चाणक्य की नीति का मार्ग समझने में कठिन है । क्योंकि—
यह शकटदास यदि शत्रु की अनुमति से मेरे समीप पहुँचाया गया तो उस ( शत्रु ) ने क्रोध से वध करने में नियुक्त व्यक्ति को क्यो मार दिया ? और यदि ( शकटदाससम्बन्धी बात ) बनावटी नहीं है तो वैसा कष्टपूर्ण ( कूटलेख,