भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 465, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 465

१६२ मुद्राराक्षसम्

**कुटुम्बिनी—**आर्य ! यदि ऐसा है, तो इस समय बन्धुवर्ग का लौट जाना अनुचित है ।

**टिप्पणी—प्रतिवचनम्—**प्रत्युत्तरम् । **प्रतिपद्यसे—**ददासि । **दृष्टिपथेऽपि—**चक्षुर्विषयेऽपि । कहा भी है—'राजद्वारे श्मशाने च यस्तिष्ठति स बान्धव' । **कृतप्रतीकारा —**कृत विहित प्रतीकार उपायः यै ते तयाविधाः । **परिवर्धमानशोकदीनवदना —**परिवर्धमानः वृद्धिं गच्छन् शोक तेन दीनानि म्लानानि वदनानि मुखानि येषा ते परिवर्धमानशोकदीनवदना । **वाष्पगुर्व्या दृष्ट्या—**अश्रुपूर्णनेत्रेण । **वध्यस्थानम्—**श्मशानम् । **अतोऽपरम्—**एतदग्रे । **अभूमि —**अयुक्तमित्यर्थः । **कुलजनस्य—**गृहजनस्य । **मित्रकार्येण—**अत्र करणे तृतीया । **यद्येवम्—**सुहृत्कार्यसाधनाय विनाशे सतीत्यर्थः ।

**चन्दनदास —**अध इ व्ववसिद अज्जाए ? ( अथ किं व्यवसितमार्यया ? )

कुटुम्बिनी—[ सवाष्पम् ] भत्तुणो चलणमणुगच्छन्तीए अप्पाणुग्गहो होदि त्ति । ( भर्तुश्चरणमनुगच्छन्त्या आत्मानुग्रहो भवति इति । )

**चन्दनदास—**अज्जे ! दुव्ववसिद एद दे, ता दाणी अज्जाए अअं असुणिदलोअव्ववहारो कुमारो अणुगेह्णिदव्वो त्ति । ( आर्ये ! दुर्व्यवसितमिदं ते, तदिदानीमार्ययाऽयमश्रुतलोकव्यवहार कुमारोऽनुग्रहीतव्य इति । )

**कुटुम्बिनी—**अणुगेह्लन्तु ण प्पसण्णाओ कुलदेवदाओ । जाद ! पुत्तअ ! प्पणम अपच्छिमस्स पिदुणो पाएु । ( अनुगृह्णन्त्वेन प्रसन्ना कुलदेवता । जात ! पुत्रक ! प्रणम अपश्चिमस्य पितु पादयो । )

पुत्र —[ पादयोर्निपत्य ] ताद ! मए तादबिरहिदेण कि अणुचिट्ठिदव्व ? ( तात ! मया तातविरहितेन किमनुष्ठातव्यम् ? )

**चन्दनदास —**पुत्त ! चाणक्कबिरहिदे देसे बसिदव्व । ( पुत्र ! चाणक्यविरहिते देशे वस्तव्यम् । )