भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 471, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 471

४०० मुद्राराक्षसम्

टिप्पणीआर्यचाणक्यस्य—अत्र सम्भवविवक्षाया षष्ठी। अथवा ‘चाणक्याय’ ऐसा पाठ रखकर ‘कर्मणा यमभिप्रैति’—सूत्र से चतुर्थी करनी चाहिए। नन्दकुलसैन्यसञ्चयचूर्णनकुलिशस्य—नन्दाना कुल वंशः तस्य सैन्यसञ्चय सैन्यवर्ग तस्य चूर्णेन विध्वंसः तस्य (तस्मै) कुलिश, तस्य। मौर्यकुलप्रतिष्ठापितधर्मसञ्चयस्य—चन्द्रगुप्तवंशस्थिरीकृतपुञ्जस्य। आर्य-नीतिसंयमितबुद्धिपरिसर—आर्यस्य चाणक्यस्य नीतिः नयः तया संयमितः कुण्ठित, बुद्धिपरिसरः मतिवैशद्यम् यस्य सः तथाविधः।

[ तत प्रविशति जवनिकावृतशरीरो मुखमात्रदृश्यः सहर्षश्चाणक्यः। ]

चाणक्य—भद्र ! कथय कथय—

केनोत्तुङ्गशिखाकलापकपिलो बद्ध पटान्ते शिखी ? पाशै केन सदागतेरगतिता सद्य समासादिता ? केनानेकपदानवासितसट सिंहोऽर्पित पञ्जरे ? भीम केन चलैकनक्रमकरो दोर्भ्या प्रतीर्णोऽर्णव ? ॥ ६ ॥

अन्वयः—उत्तुङ्गशिखाकलापकपिलः शिखी केन पटान्ते बद्धः ? सदागतेः अगतिता केन सद्य पाशैः समासादिता ? अनेकपदानवासितसटः सिंहः केन पञ्जरे अर्पित ? चलैकनक्रमकरः भीम अर्णव केन दोर्भ्याम् प्रतीर्णः ? ॥६॥

व्याख्याउत्तुङ्गशिखाकलापकपिलः—उत्तुङ्गे महोच्छ्राये शिखाकलापे ज्वालासमूहे कपिलः पिङ्गल , शिखी—अग्नि , केन—महापुरुषेण, पटान्ते—वस्त्रान्ते, बद्धः—संयमितः धृत इति यावत् ? सदागतेः—वायोः, अगतिता—अचलता, केन—महामतिना, सद्यः—तत्क्षण, पाशै—रज्जुभिः, समासादिता—प्रापिता ? अनेकपदानवासितसट—अनेकपाना हस्तिना दाने मदजलैः वासिताः सुरभीकृता, सटा केशरा तस्य तादृशः, सिंहः—केशरी, केन—महावीरेण, पञ्जरे—पश्वादिवन्धनागारे, अर्पित.—स्थापित ? चलैकनक्रमकरः—चलाः चञ्चलाः एके महान्तः नक्राः कुम्भीराः मकराः ग्राहाश्च यस्मिन् तादृशः, (अतएव) भीम—भीषणः, अर्णव—समुद्रः, केन—महासाहसिकेन, दोर्भ्याम्—बाहुभ्याम्, प्रतीर्णः—पार गतः ? ॥६॥