भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 478, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 478

सप्तमोऽङ्कः ४०७

**टिप्पणी—विभवतः—**ऐश्वर्यानुसारेणेत्यर्थः । विभवेन इति विभवतः तृतीयान्तात्तसिप्रत्ययः । अथवा वि√भू+शतृ=विभवत्, तस्य । इस व्युत्पत्ति में यह शब्द लुप्त 'राज्ञः' का विशेषण माना जाएगा । **परिवारः—**अनुचरवर्गः । परिवार्यते अनेन इति परि√वृ+घञ् करणे । श्लोक १० में वाच्योत्प्रेक्षा अलंकार और श्लेषानुप्राणित गम्योपमा अलंकार में अंगांगिभाव से सांकर्य है । इसमें मालभारिणी छन्द है । इस छन्द का लक्षण यह है— “विषमे ससजा यदा गुरु चेत्, सभरा येन तु मालभारिणीयम्' । मालभारिणी को औपच्छन्दसिक भी कहते हैं ॥ १० ॥

अथवा—

विगुणीकृतकार्मुकोऽपि जेतुं
भुवि जेतव्यमसौ समर्थ एव ।
स्वपतोऽपि ममेव यस्य तन्त्रे
गुरवो जाग्रति कार्यजागरूकाः ॥ ११ ॥

**अन्वयः—**स्वपतोऽपि मम इव यस्य तन्त्रे कार्यजागरूकाः गुरवो जाग्रति असौ विगुणीकृतकार्मुकोऽपि भुवि जेतव्यं जेतुं समर्थ एव ॥ ११ ॥

**व्याख्या—स्वपतोऽपि—**शयानस्यापि, **मम इव—**चन्द्रगुप्तस्येव, **यस्य—**भूपस्य, **तन्त्रे—**राष्ट्रचिन्तने, **कार्यजागरूकाः—**कार्ये कर्तव्यकर्मणि जागरूकाः—सावधानाः, **गुरवः—**आचार्याः, **जाग्रति—**सततं शिवानुध्यानपरा आसते, **असौ—**एष भूपः, **विगुणीकृतकार्मुकोऽपि—**विगुणीकृतं मौर्वीहीनं कृतं कार्मुकं धनुः यस्य तथाविधोऽपि, **भुवि—**पृथिव्यां, **जेतव्यं—**जेतुं योग्यं शत्रुमित्यर्थः, **समर्थ एव—**शक्त एव ॥ ११ ॥

**हिन्दी अनुवाद—अथवा—**सोते हुए भी मेरे जैसे जिस (राजा) के राष्ट्र-चिन्तन में कर्तव्य के प्रति सतत सावधान गुरु जाग रहे हैं, वह प्रत्यंचा से रहित धनुष वाला होता हुआ भी पृथ्वी पर शत्रु को जीतने में समर्थ ही है ॥ ११ ॥

**टिप्पणी—विगुणीकृतकार्मुकः—**विगतः गुणः अस्य इति विगुणम् । अविगुणं विगुणं कृतम् इति विगुणीकृतम् विगुण+च्वि, ईत्व√कृ+क्त । तादृशं कार्मुकं यस्य सः । इस पद्य में वाक्यार्थहेतुक काव्यलिंग अलंकार,