मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 481, कुल 488 में से
संदर्भ में पढ़ें| ४१० | मुद्राराक्षसम् |
|---|
षड्गुण + ष्यञ् स्वार्थे चतुर्वर्णादित्वात् = षाड्गुण्यम् तद्धितार्थे समासः । अत्र 'क्वचित् स्वार्थिका प्रकृतिंतो लिङ्गवचनान्यतिवर्तन्ते' इति कारिकावचनात् नपुंसकत्वम् । छह गुण ये हैं—'संधि, विग्रह, यान, आसन, संश्रय और द्वैधीभाव' । षाड्गुण्यस्य चिन्ता चिन्तनम् तस्याम् । जगत —अत्र शेषे षष्ठी । इसका सम्बन्ध 'किम्' से है । इस श्लोक मे तुल्ययोगितालंकार, समुच्चयालंकार, वाक्यार्थहेतुक काव्यलिंग अलंकार और अर्थापत्ति अलंकार की स्थिति परस्पर निरपेक्ष होने से संसृष्टि अलंकार है । इसमें भी अनुष्टुप् छन्द है ॥ १३ ॥
राक्षस —[ स्वगतम् ] स्पृशति मां भृत्यभावेन कौटिल्यशिष्यः । अथवा विनय एवैष चन्द्रगुप्तस्य । महत्परन्तु मे विस्मयो जनयति । सर्वथा स्थाने यशस्वी चाणक्यः । कुतः —
द्रव्यं जिगीषुमधिगम्य जडात्मनोऽपि नेतुर्यशस्विनि पदे नियता प्रतिष्ठा । अद्रव्यमेत्य भुवि शुद्धनयोऽपि मन्त्री शीर्णाश्रयः पतति कूलजवृक्षवृत्त्या ॥ १४ ॥
अन्वय — द्रव्यं जिगीषुम् अधिगम्य जडात्मनोऽपि नेतुः यशस्विनि पदे प्रतिष्ठा नियता ( भवति ) । अद्रव्यम् एत्य शुद्धनयः अपि मन्त्री शीर्णाश्रयः ( सन् ) कूलजवृक्षवृत्त्या भुवि पतति ॥ १४ ॥
व्याख्या — द्रव्यम् — पात्र योग्यमिति यावत् जिगीषूम् — जयोद्योगिनम् नृप-मिति शेषः, अधिगम्य — लब्ध्वा, जडात्मनोऽपि — मन्दबुद्धेरपि, नेतुः — नायकस्य मन्त्रिणः, यशस्विनि — कीर्तिविशिष्टे, पदे — स्थाने, प्रतिष्ठा — स्थितिः, नियता — निश्चिता, ( भवति ) । अद्रव्यम् — अपात्रम् अयोग्यमिति यावत्, एत्य — प्राप्य, शुद्धनयः अपि — विशुद्धनीतिशाल्यपि, मन्त्री — अमात्यः, शीर्णाश्रयः — उच्छिन्नावलम्बनः, ( सन् ) कूलजवृक्षवृत्त्या — कूलजस्य नदीतट-जातस्य वृक्षस्य पादपस्य वृत्त्या व्यवहारेण तीरजस्तरुरिवेदित्यर्थः भुवि — पृथिव्या, पतति — पतनं प्राप्नोति ॥ १४ ॥
हिन्दी अनुवाद — राक्षस —[ मन में ] चाणक्य का शिष्य मुझे सेवक भाव से छू रहा है (अर्थात् व्यवहार कर रहा है) अथवा यह चन्द्रगुप्त का