भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 481, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 481
४१०मुद्राराक्षसम्

षड्गुण + ष्यञ् स्वार्थे चतुर्वर्णादित्वात् = षाड्गुण्यम् तद्धितार्थे समासः । अत्र 'क्वचित् स्वार्थिका प्रकृतिंतो लिङ्गवचनान्यतिवर्तन्ते' इति कारिकावचनात् नपुंसकत्वम् । छह गुण ये हैं—'संधि, विग्रह, यान, आसन, संश्रय और द्वैधीभाव' । षाड्गुण्यस्य चिन्ता चिन्तनम् तस्याम् । जगत —अत्र शेषे षष्ठी । इसका सम्बन्ध 'किम्' से है । इस श्लोक मे तुल्ययोगितालंकार, समुच्चयालंकार, वाक्यार्थहेतुक काव्यलिंग अलंकार और अर्थापत्ति अलंकार की स्थिति परस्पर निरपेक्ष होने से संसृष्टि अलंकार है । इसमें भी अनुष्टुप् छन्द है ॥ १३ ॥

राक्षस —[ स्वगतम् ] स्पृशति मां भृत्यभावेन कौटिल्यशिष्यः । अथवा विनय एवैष चन्द्रगुप्तस्य । महत्परन्तु मे विस्मयो जनयति । सर्वथा स्थाने यशस्वी चाणक्यः । कुतः —

द्रव्यं जिगीषुमधिगम्य जडात्मनोऽपि नेतुर्यशस्विनि पदे नियता प्रतिष्ठा । अद्रव्यमेत्य भुवि शुद्धनयोऽपि मन्त्री शीर्णाश्रयः पतति कूलजवृक्षवृत्त्या ॥ १४ ॥

अन्वय — द्रव्यं जिगीषुम् अधिगम्य जडात्मनोऽपि नेतुः यशस्विनि पदे प्रतिष्ठा नियता ( भवति ) । अद्रव्यम् एत्य शुद्धनयः अपि मन्त्री शीर्णाश्रयः ( सन् ) कूलजवृक्षवृत्त्या भुवि पतति ॥ १४ ॥

व्याख्या — द्रव्यम् — पात्र योग्यमिति यावत् जिगीषूम् — जयोद्योगिनम् नृप-मिति शेषः, अधिगम्य — लब्ध्वा, जडात्मनोऽपि — मन्दबुद्धेरपि, नेतुः — नायकस्य मन्त्रिणः, यशस्विनि — कीर्तिविशिष्टे, पदे — स्थाने, प्रतिष्ठा — स्थितिः, नियता — निश्चिता, ( भवति ) । अद्रव्यम् — अपात्रम् अयोग्यमिति यावत्, एत्य — प्राप्य, शुद्धनयः अपि — विशुद्धनीतिशाल्यपि, मन्त्री — अमात्यः, शीर्णाश्रयः — उच्छिन्नावलम्बनः, ( सन् ) कूलजवृक्षवृत्त्या — कूलजस्य नदीतट-जातस्य वृक्षस्य पादपस्य वृत्त्या व्यवहारेण तीरजस्तरुरिवेदित्यर्थः भुवि — पृथिव्या, पतति — पतनं प्राप्नोति ॥ १४ ॥

हिन्दी अनुवाद — राक्षस —[ मन में ] चाणक्य का शिष्य मुझे सेवक भाव से छू रहा है (अर्थात् व्यवहार कर रहा है) अथवा यह चन्द्रगुप्त का

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 481, कुल 488 में से · BharatKosha