भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 483, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 483

४१२ मुद्राराक्षसम्

चाणक्य —अमात्य राक्षस ! अगृहीतशस्त्रेण भवताऽनुगृह्यत वृषल इत्यत सन्देह । तद्यदि सत्यमेव चन्दनदासस्य जीवितमिष्यते, ततो गृह्यतामिदं शस्त्रम् ।

राक्षस —भो विष्णुगुप्त ! मा मैवम् । अयोग्या वयमेतस्य ग्रहणे, विशेषतस्त्वया गृहीतस्य शस्त्रस्य ।

चाणक्य —अमात्यराक्षस ! योग्योऽहमयोग्यो भवान् इति कथमेतत् ? पश्य—

अश्वैः सार्द्धमजस्रदत्तकविकाक्षामैरशून्यासनैः स्नानाहारविहारपानशयनस्वेच्छासुखैर्वर्जितान् । माहात्म्यादतिपौरुषस्य भवतो दृप्तारिदर्पच्छिद पश्यैतान् परिकल्पनाव्यतिकरप्रोच्छूनवशान् गजान् ॥१५॥

अन्वय —दृप्तारिदर्पच्छिद अतिपौरुषस्य भवतः माहात्म्यात् अशून्यासनैः अजस्रदत्तकविकाक्षामैः अश्वैः सार्द्धम् स्नानाहारविहारपानशयनस्वेच्छासुखैः वर्जितान् परिकल्पनाव्यतिकरप्रोच्छूनवशान् एतान् गजान् पश्य ॥१५॥

व्याख्या—दृप्तारिदर्पच्छिद—दृप्तानाम् गर्वितानाम् अरीणाम् शत्रूणाम् दर्पच्छिद गर्वहारिण , अतिपौरुषस्य—अतिशयपराक्रमशालिनः, भवत —तव, माहात्म्यात्—प्रभावात्, अशून्यासने —अशून्यानि अनपनीतानि आसनानि पल्याणांनि येषां तादृशैः, अजस्रदत्तकविकाक्षामै —अजस्रम् अनवरतम् दत्ता मुखे अर्पिता कविका खलीन येषा ते तथाविधे अतएव क्षामैः कृशैः, अश्वैः—घोटकैः, सार्द्धम्—सह, स्नानाहारविहारपानशयनस्वेच्छासुखै —स्नानं च निमज्जनं च आहारश्च भोजनं च विहारश्च भ्रमणं च पानं च तृषावारणं च शयनं च स्वापश्च तानि स्वेच्छासुखानि यथेच्छाव्यापारास्तैः, वर्जितान्—रहितान, परिकल्पनाव्यतिकरप्रोच्छूनवशान्—परिकल्पनायाः पल्याणास्य व्यतिकरात् नित्यसम्पर्कात् प्रोच्छूनाः जातशोफाः वशाः पृष्ठास्थीनि येषां तादृशान्, एतान्—अमून, गजान्—हस्तिनः, पश्य—अवलोकय ॥१५॥

हिन्दी अनुवादचाणक्य—अमात्य राक्षस ! क्या ( आप ) चन्दनदास का जीवन चाहते हैं ?

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 483, कुल 488 में से · BharatKosha