नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 118, कुल 309 में से
संदर्भ में पढ़ें( ८४ ) चेटी-(सविषादमात्मगतम्)कहं जीवदणिरवेक्खो विअ से आला वो । कथं जीवितनिरपेक्ष¹ इवास्या आलापः । (प्रकाशम् ) भट्टिदारिए ! णं गदा एव्व तहिं मणोहरिआ; ता कदावि भर्तृदारिके ! ननु गतैव तत्र मनोहरिका ; तत्कदापि भट्टा मित्तावसू इध एव्व आअच्छदि भर्ता मित्रावसुरिहैवागच्छति । [ततः प्रविशति मित्रावसुः] मित्रावसुः- आज्ञापितोऽस्मि तातेन, यथा-'वत्स मित्रावसो ! कुमारजीमूतवाहनोऽस्माभिरिहासनवासात्सुपरीक्षितः । कुतोऽस्माद्योग्यो वरः ? तदस्मै वत्सा मलयवती प्रतिपाद्यताम्²' इति । अहन्तु स्नेहपराधीनतयाऽन्य- देव किमप्यवस्थान्तरमनुभवामि । कुतः ? यद्विद्याधरराजवंशतिलकः³ प्राज्ञः सतां सम्मतो रूपेणाप्रतिमः पराक्रमधरो विद्वान् विनीतो युवा । यच्चासूनपि संत्यजेत्करुणया सत्त्वार्थमभ्युद्यत⁴- स्तेनास्मै ददतः स्वसारमतुला⁵ तुष्टिर्विषादश्च मे ॥१०॥ श्लोक न०: १० अन्वयः- अस्मै स्वसारं ददतः मे, यत् विद्याधरराजवंश तिलकः, प्राज्ञः, सतां सम्मतः रूपेण अप्रतिमः, पराक्रमधरः, विद्वान् युवा- तेन अतुला तुष्टिः ; यत् च करुणया सत्त्वार्थम् अभ्युद्यतः असून्अपि सन्त्यजेत्, (तेन) विषादश्च ॥