नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 120, कुल 309 में से
संदर्भ में पढ़ें( ८६ ) श्रुतश्च मया - 'असौ जीमूतवाहनोऽत्रैव गौर्याश्रमसम्बद्धे चन्दनलतागृहे वर्तते' इति । तदेतच्चन्दनलतागृहम् । यावत्प्रविशामि । [प्रविशति] विदूषकः — (ससम्भ्रममवलोक्य) भो वअस्स ! पच्छादेहि भो वयस्य ! प्रच्छादया- इमिणा कअलिवत्तेण इमं चित्तगदं कण्णअं । एसो क्खु ऽनेन कदलीपत्रेणेमां चित्रगतां कन्यकाम् । एष खलु सिद्धजुवराओ मित्तावसू इध इव आअदो । कदावि (एसो) सिद्धयुवराजो मित्रावसुरीहैवागतः । कदापि¹ (एष) पेक्खिस्सदि । प्रेक्षिष्यते । नायकः— (कदलीपत्रेण प्रच्छादयति) मित्रावसुः-(उपसृत्य) कुमार ! मित्रावसुः प्रणमति । नायकः-(दृष्ट्वा) मित्रावसो ! स्वागतम् । इहोपविश्यताम् । चेटी—भट्टिदारिए ! आअदो भट्टा मित्तावसू । भर्तृदारिके ! आगतो भर्त्ता मित्रावसुः । नायिका- हज्जे ! पिअं मे । हञ्जे ! प्रियं मे । नायकः — मित्रावसो ! अपि कुशली सिद्धराजो विश्वावसुः ? मित्रावसुः-कुशली तातः। तदादेशेनैवास्मि त्वत्सकाशमागतः । नायकः — किमाह तत्रभवान् ?